Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 108
________________ १५, १५७-१७८ ] पञ्चदश अध्याय त्रैमासिकः प्रवासः स्यात् पुरस्ताद् दक्षिणे' पथि । पञ्चसप्ततिर्मध्ये स्यात् पञ्चाशीतिस्तथोत्तरै ॥ १५७ चतुर्विंशत्यहानि स्युः पृष्ठतो दक्षिणे पथि । मध्ये पञ्चदशाहानि षडहान्युत्तरे पथि ॥ १५८ ज्येष्ठा-नुराधयोश्चैव द्विमासं पूर्वतो विदुः । अपरेणाष्टरात्रं तु तौ च सन्ध्ये स्मृते बुधैः ॥ १५९ मूलादिदक्षिणो मार्गः फाल्गुन्यादिषु मध्यमः । उत्तरश्च भरण्या दिर्जघन्यो मध्यमोऽन्तिमौ ॥ १६० वामोऽथ दशकां खारी विंशकां' त्रिंशकामपि । करोति नौगवीथीस्थो" भार्गवश्चारमार्गतः॥ १६१ विंशका त्रिंशका खारी चत्वारिंशतिकाऽपि वा । वामे शुक्रे तु विज्ञेया गजवीथीमुपागते ॥ १६२ ऐरावणपथे त्रिंशश्चत्वारिंशदथापि वा । पञ्चाशीतिको ज्ञेयाँ खारी तुल्यों तु भार्गवः ॥ १६३ विंशका त्रिंशका खारी" चत्वारिंशतिकाऽपि वा। वामगो वीथिमागम्य करोत्यर्थं च" भार्गवः॥ १६४ चत्वारिंशत् पञ्चाशद् वा पष्टिं वाऽर्थं समादिशेत् । जरद्वपथं प्राप्ते भार्गवे खारिसंज्ञया ॥ १६५ सप्ततिं चाथ वाऽशीतिं नवतिं वा तथा दिशेत् । अजवीथीगते शुक्रे भद्रबाहुवचो यथा ॥ १६६ शतिका द्विशता खारी त्रिशता वा तदा भवेत् । मृगवीधीमुपागम्य विवों भार्गवो यदा ॥ १६७ विच्छिन्नविष (बिस)मृणालं न च पुष्पं फलं यदा । वैश्वानरपथं प्राप्तो यदा वामस्तु भार्गवः॥ १६८ तेषां विजयमाख्याति प्रतिलोमः पराजयम् । उदयास्तमने शुक्रो बुधश्च कुरुते यदा ॥ १६९ मार्गमेकं समासृत्य सुभिक्ष-क्षेमदस्तदा । यस्य देशस्य नक्षत्रं शुक्रो हन्यौद्विचारगः ॥ १७० तस्मात् भयं परं विन्द्याच्चतुर्मासं न चापरम् । शुक्रोदये ग्रहो याति प्रवासं यदि कश्वनः ॥ १७१ क्षेमं सुभिक्षमाख्याति महद् वर्षं च तत्तथा । बलक्षोभो भवेच्छ्यामे मृत्युः कपिल-कृष्णयोः ॥ १७२ नीले गवां तु मरणं रूक्षे वृष्टिक्षयः क्षुधा । वाताक्षिरोगो माञ्जिष्ठे पीते शुक्रे ज्वरो भवेत् ॥ १७३ कृष्णे" विचित्रे वर्णे च क्षयं लोकस्य निर्दिशेत् । नभस्तृतीयभागं च आरुहेत्त्वरितो यदा ॥ १७४ नक्षत्राणि च चत्वारि वा(मा)साभ्यामारुहंश्चरेत् । एकोनविंशद्रुक्षाणि" मासानष्टौ च भार्गवः ॥ १७५ चत्वारि पृष्ठतश्चार" प्रवासं कुरुते ततः । द्वादशैकोनविंशद्वा द्वादशाहं च भार्गवः ॥ १७६ एकैकस्मिन् नक्षत्रे चरमाणोऽवतिष्ठति । सप्तभागेषू सप्ताहं समक्षेत्रे दशाहिकम् ॥ शेषेषु पृष्ठतो विन्द्यात् एकविंशमहोनिशम् । [पूर्वतः समचारेण पञ्च पक्षेण भार्गवः ॥] पञ्चाई. हंति ऋक्षाणि भद्रबाहुवचो यथा ।। १७८ 1C दक्षिणो। 2 B षोडशान्युत्तरे; Cषडाहान्युत्तरे। 3 C द्वे मासे । 4-5 AD स्मृतावुभौ; C द्विधा मती । GC आषाढो। 7 A व्यामः। 8 C दशिकाम् । 9 C विशति । 10 C शतिकाम् । 10-11 C मागधीवीथी। 12 A स्यात् । 13 AC मागतः। 14 A सर्पवा। 14-15 C पञ्चाशीति। 16 C कुरुते। 17 AC मूल्यं। 18 Cचेव। * Cश्यामागोवी%; थिरारोग्यं । 19 A वामे गो। 20-21 A आर्थण: B र्घषण; D अर्येण । 22-24 A पणामादिशेत्; B वा केणमादिशेत् ; D वा तथाऽऽदिशेत् । 25 A जरगेन; B जरंगम। 26 A संजुया; B संचया। 27 AC वृष । 28 A न। 28-29 Bतच; D तयं व। 30 C These two letters are missing in this Ms, 31 A These two letters are missing in this Ms., Cश्यामाः। 32 Aचेजय'; C विषयम् । 33 B मनो; D मनं। 34 ABD हन्ति । 35 A BD भविकारतः। 36 C चातु। 37 A BD मृत्युम् । 33 A °वर्णयोः; B°उष्णयोः; COविग्रहे। 39 A वां; Cगवा; D गंवा। 40 Bक्षये; C क्षते। 41 B उष्णे। 42 C वयं । 43 A तरु: B नाभः; D नरः। tCप्रदहस्युदिता ग्रहाः। 44 A एकोनविंश; C एकविशति । 45A मजाणि; Cरिक्षाणि । 46 A नाप्ये । 47 Cचारूं। Cद्वादशकोऽत्रविंशत्या। 43 A वरमाणः, B चरमानः। 49 B च तिष्ठते । 50C नक्तचारेषु। 51 C मेषेषु । MC एकविंशदहानिसः। A BD This second half is additionally found in these Mss. but as it is not fitting contextually, I have placed it in rectangular brackets. 52 C यदाम। 53 C भाक्षाणि । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150