________________
१५, १५७-१७८ ]
पञ्चदश अध्याय त्रैमासिकः प्रवासः स्यात् पुरस्ताद् दक्षिणे' पथि । पञ्चसप्ततिर्मध्ये स्यात् पञ्चाशीतिस्तथोत्तरै ॥ १५७ चतुर्विंशत्यहानि स्युः पृष्ठतो दक्षिणे पथि । मध्ये पञ्चदशाहानि षडहान्युत्तरे पथि ॥ १५८ ज्येष्ठा-नुराधयोश्चैव द्विमासं पूर्वतो विदुः । अपरेणाष्टरात्रं तु तौ च सन्ध्ये स्मृते बुधैः ॥ १५९ मूलादिदक्षिणो मार्गः फाल्गुन्यादिषु मध्यमः । उत्तरश्च भरण्या दिर्जघन्यो मध्यमोऽन्तिमौ ॥ १६० वामोऽथ दशकां खारी विंशकां' त्रिंशकामपि । करोति नौगवीथीस्थो" भार्गवश्चारमार्गतः॥ १६१ विंशका त्रिंशका खारी चत्वारिंशतिकाऽपि वा । वामे शुक्रे तु विज्ञेया गजवीथीमुपागते ॥ १६२ ऐरावणपथे त्रिंशश्चत्वारिंशदथापि वा । पञ्चाशीतिको ज्ञेयाँ खारी तुल्यों तु भार्गवः ॥ १६३ विंशका त्रिंशका खारी" चत्वारिंशतिकाऽपि वा। वामगो वीथिमागम्य करोत्यर्थं च" भार्गवः॥ १६४ चत्वारिंशत् पञ्चाशद् वा पष्टिं वाऽर्थं समादिशेत् । जरद्वपथं प्राप्ते भार्गवे खारिसंज्ञया ॥ १६५ सप्ततिं चाथ वाऽशीतिं नवतिं वा तथा दिशेत् । अजवीथीगते शुक्रे भद्रबाहुवचो यथा ॥ १६६ शतिका द्विशता खारी त्रिशता वा तदा भवेत् । मृगवीधीमुपागम्य विवों भार्गवो यदा ॥ १६७ विच्छिन्नविष (बिस)मृणालं न च पुष्पं फलं यदा । वैश्वानरपथं प्राप्तो यदा वामस्तु भार्गवः॥ १६८ तेषां विजयमाख्याति प्रतिलोमः पराजयम् । उदयास्तमने शुक्रो बुधश्च कुरुते यदा ॥ १६९ मार्गमेकं समासृत्य सुभिक्ष-क्षेमदस्तदा । यस्य देशस्य नक्षत्रं शुक्रो हन्यौद्विचारगः ॥ १७० तस्मात् भयं परं विन्द्याच्चतुर्मासं न चापरम् । शुक्रोदये ग्रहो याति प्रवासं यदि कश्वनः ॥ १७१ क्षेमं सुभिक्षमाख्याति महद् वर्षं च तत्तथा । बलक्षोभो भवेच्छ्यामे मृत्युः कपिल-कृष्णयोः ॥ १७२ नीले गवां तु मरणं रूक्षे वृष्टिक्षयः क्षुधा । वाताक्षिरोगो माञ्जिष्ठे पीते शुक्रे ज्वरो भवेत् ॥ १७३ कृष्णे" विचित्रे वर्णे च क्षयं लोकस्य निर्दिशेत् । नभस्तृतीयभागं च आरुहेत्त्वरितो यदा ॥ १७४ नक्षत्राणि च चत्वारि वा(मा)साभ्यामारुहंश्चरेत् । एकोनविंशद्रुक्षाणि" मासानष्टौ च भार्गवः ॥ १७५ चत्वारि पृष्ठतश्चार" प्रवासं कुरुते ततः । द्वादशैकोनविंशद्वा द्वादशाहं च भार्गवः ॥ १७६ एकैकस्मिन् नक्षत्रे चरमाणोऽवतिष्ठति । सप्तभागेषू सप्ताहं समक्षेत्रे दशाहिकम् ॥
शेषेषु पृष्ठतो विन्द्यात् एकविंशमहोनिशम् । [पूर्वतः समचारेण पञ्च पक्षेण भार्गवः ॥] पञ्चाई. हंति ऋक्षाणि भद्रबाहुवचो यथा ।। १७८
1C दक्षिणो। 2 B षोडशान्युत्तरे; Cषडाहान्युत्तरे। 3 C द्वे मासे । 4-5 AD स्मृतावुभौ; C द्विधा मती । GC आषाढो। 7 A व्यामः। 8 C दशिकाम् । 9 C विशति । 10 C शतिकाम् । 10-11 C मागधीवीथी। 12 A स्यात् । 13 AC मागतः। 14 A सर्पवा। 14-15 C पञ्चाशीति। 16 C कुरुते। 17 AC मूल्यं। 18 Cचेव। * Cश्यामागोवी%; थिरारोग्यं । 19 A वामे गो। 20-21 A आर्थण: B र्घषण; D अर्येण । 22-24 A पणामादिशेत्; B वा केणमादिशेत् ; D वा तथाऽऽदिशेत् । 25 A जरगेन; B जरंगम। 26 A संजुया; B संचया। 27 AC वृष । 28 A न। 28-29 Bतच; D तयं व। 30 C These two letters are missing in this Ms, 31 A These two letters are missing in this Ms., Cश्यामाः। 32 Aचेजय'; C विषयम् । 33 B मनो; D मनं। 34 ABD हन्ति । 35 A BD भविकारतः। 36 C चातु। 37 A BD मृत्युम् । 33 A °वर्णयोः; B°उष्णयोः; COविग्रहे। 39 A वां; Cगवा; D गंवा। 40 Bक्षये; C क्षते। 41 B उष्णे। 42 C वयं । 43 A तरु: B नाभः; D नरः। tCप्रदहस्युदिता ग्रहाः। 44 A एकोनविंश; C एकविशति । 45A मजाणि; Cरिक्षाणि । 46 A नाप्ये । 47 Cचारूं। Cद्वादशकोऽत्रविंशत्या। 43 A वरमाणः, B चरमानः। 49 B च तिष्ठते । 50C नक्तचारेषु। 51 C मेषेषु । MC एकविंशदहानिसः। A BD This second half is additionally found in these Mss. but as it is not fitting contextually, I have placed it in rectangular brackets. 52 C यदाम। 53 C भाक्षाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org