Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 111
________________ भद्रबाहुसंहिता [१५, २२६-२३१, १६, १-१० हेमन्ते शिशिरे रक्तः शुक्रः सूर्यप्रभानुगः । पीतो वसन्त-ग्रीष्मे च शुक्लः स्यान्नित्यसूर्यतः ॥ २२६ अतो ऽस्य येऽन्यथाभावा विपरीता भयावहाः । शुक्रस्य॑ चतुरो' लोके' कृष्णे नक्षत्रमण्डले ॥ २२७ पूर्वोदये फलं यत् तु पच्यते ऽपरतस्तु तत् । शुक्रस्यापरतो" यत्तु पच्यते" पूर्वतः फलम् ॥ २२८ एवमेवं विजानीयात् फल-पाकौ" समाहितः । कालातीतं यदा कुर्यात् तदा घोरं समादिशेत् ॥ २२९ सवक्रचार यो वेत्ति" शुक्रचारं स बुद्धिमान् । श्रमणः स सुखं याति क्षिप्रं देशमपीडितम् ॥ २३० यदाऽग्निवर्णो रविसंस्थितो व वैश्वानरं मार्गसमाश्रितस्य । तदा भयं शंसति सोऽग्निजातं तज्जातजं साधयितव्यमन्यतः ॥ इति नैर्ग्रन्थे श्रीभद्रबाहुके निमित्ते शुक्रचारो नाम पञ्चदशमो ऽध्यायः समाप्तः ॥ अथातः परं शनैश्चरचारं प्रारभ्यते लोकहितेच्छया ॥ अंतः परं प्रवक्ष्यामि शुभा-ऽशुभविचेष्टितम् । यच्छृत्वाऽवहितः प्राज्ञो भवेन्नित्यमतंमतः ॥ प्रवासमुदयं वक्रं गतिं वर्णं फलं तथा । शनैश्चरस्य वक्ष्यामि यथावर्दैनुपूर्वशः॥ २ (C-1) प्रवासं दक्षिणे मार्ग मासिकं मध्यमे पुनः । दिवसाः पञ्चविंशतिस्त्रयोविंशतिरुत्तरे ॥ ३ (C-2) चारंगतो यदा भूयः सन्तिष्ठति महाग्रहः । एकोत्तरेण वक्रेण भौमवत् कुरुते फलम् ॥ ४ (C-3) संवत्सरमुपस्थाय नक्षत्रं विप्रमुञ्चति । सूर्यपुत्रस्ततश्चैव प्रजानां हितकाम्ययाँ । ५ (C-4) द्वे नक्षत्रे यदा सौरिर्वर्षेण चरते यदा । राज्ञामन्यो"ऽन्यभेदश्च शस्त्रकोपश्च जायते ॥ ६ (C-5) दुर्गे भवति संवासो मर्यादा च विनश्यति । वृष्टिश्च विषमी ज्ञेया व्याधिकोपश्च जायते ॥ ७ (C-6) यदा तु त्रीणि चत्वारि नक्षत्राणि शनैश्वरः । मन्दवृष्टिं च दुर्भिक्षं शस्त्रं व्याधिं च निर्दिशेत् ॥ ८ (C-7) चत्वारि वा यदा गच्छेन्नक्षत्राणि महाद्युतिः । सदा युगान्तं जानीयाद् यान्ति मृत्युमुखं प्रजाः ।। ९ (C-8) उत्तरे पतितो मार्गे यद्येषो नीलतां" ब्रजेत्" । स्निग्धं तदा फलं ज्ञेयं नागरं जायते तदा ॥ १० (0-9) 1C°नयः। 2 BD वसन्ते। 3 C नृपूजितः। 4 AC अथो। 5C बर्णाः। 6 Cशुक्र। 7 Cव। चरते। 8 C यच्च । 9 C प्राप्यते । 10 C स्य पुरतो। 11 C ते सखे। 12 A B °पाकं; C°सुक्तं । 13 C समासतः। 14 A अवति । 15 A B C श्रवणः। 16 C क्षिप्र। 17 Cसपंडितम् । *D Thisst. is not found in this Ms.I 18 A not found.। 19-21 C वैश्वानरमार्गेण समाश्रितस्य, 21 A समासृतस्य । 22A अपि । । B C D not found in these Mss. ItC not found in this Ms.1 23 A कृत्वा । 24 BD च हितः। 25 A °नृपः; B अतिंद्रितः। 26 A प्रतिवास्तुदयं । 27-28 B शुभाशुभविचेष्टितम्। 29-30 CThese tiwowords are not found in this Ms. 31C पञ्चविंशतिम् । 32 A B विरागत; D चिरागतः। 83 A B D एकान्तरण। 34A चक्रेण। 35-36 A BD गौतमनाम शनैचरः। 37 Cराष्ट्रमान्यः । 38-39 A अतिप्रमा; 39 C विषया। 40-41Cचरते त्रीणि । 42 B युगं । 43 D जानी। 44 B यथा। 45 A B D यदि स । 46 AC D नीलवान् । 47 A D भवेत्;C लवश। 48-49 C पलायन्ते। 50-52C नागराणां जयावहः । Jain Education International For Private & Personal Use Only www.jainelibrary.org |

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150