________________
भद्रबाहुसंहिता [१५, २२६-२३१, १६, १-१० हेमन्ते शिशिरे रक्तः शुक्रः सूर्यप्रभानुगः । पीतो वसन्त-ग्रीष्मे च शुक्लः स्यान्नित्यसूर्यतः ॥ २२६ अतो ऽस्य येऽन्यथाभावा विपरीता भयावहाः । शुक्रस्य॑ चतुरो' लोके' कृष्णे नक्षत्रमण्डले ॥ २२७ पूर्वोदये फलं यत् तु पच्यते ऽपरतस्तु तत् । शुक्रस्यापरतो" यत्तु पच्यते" पूर्वतः फलम् ॥ २२८ एवमेवं विजानीयात् फल-पाकौ" समाहितः । कालातीतं यदा कुर्यात् तदा घोरं समादिशेत् ॥ २२९ सवक्रचार यो वेत्ति" शुक्रचारं स बुद्धिमान् । श्रमणः स सुखं याति क्षिप्रं देशमपीडितम् ॥ २३०
यदाऽग्निवर्णो रविसंस्थितो व वैश्वानरं मार्गसमाश्रितस्य । तदा भयं शंसति सोऽग्निजातं तज्जातजं साधयितव्यमन्यतः ॥ इति नैर्ग्रन्थे श्रीभद्रबाहुके निमित्ते शुक्रचारो नाम पञ्चदशमो
ऽध्यायः समाप्तः ॥
अथातः परं शनैश्चरचारं प्रारभ्यते लोकहितेच्छया ॥
अंतः परं प्रवक्ष्यामि शुभा-ऽशुभविचेष्टितम् ।
यच्छृत्वाऽवहितः प्राज्ञो भवेन्नित्यमतंमतः ॥ प्रवासमुदयं वक्रं गतिं वर्णं फलं तथा । शनैश्चरस्य वक्ष्यामि यथावर्दैनुपूर्वशः॥ २ (C-1) प्रवासं दक्षिणे मार्ग मासिकं मध्यमे पुनः । दिवसाः पञ्चविंशतिस्त्रयोविंशतिरुत्तरे ॥ ३ (C-2) चारंगतो यदा भूयः सन्तिष्ठति महाग्रहः । एकोत्तरेण वक्रेण भौमवत् कुरुते फलम् ॥ ४ (C-3) संवत्सरमुपस्थाय नक्षत्रं विप्रमुञ्चति । सूर्यपुत्रस्ततश्चैव प्रजानां हितकाम्ययाँ ।
५ (C-4) द्वे नक्षत्रे यदा सौरिर्वर्षेण चरते यदा । राज्ञामन्यो"ऽन्यभेदश्च शस्त्रकोपश्च जायते ॥
६ (C-5) दुर्गे भवति संवासो मर्यादा च विनश्यति । वृष्टिश्च विषमी ज्ञेया व्याधिकोपश्च जायते ॥
७ (C-6) यदा तु त्रीणि चत्वारि नक्षत्राणि शनैश्वरः । मन्दवृष्टिं च दुर्भिक्षं शस्त्रं व्याधिं च निर्दिशेत् ॥
८ (C-7) चत्वारि वा यदा गच्छेन्नक्षत्राणि महाद्युतिः । सदा युगान्तं जानीयाद् यान्ति मृत्युमुखं प्रजाः ।।
९ (C-8) उत्तरे पतितो मार्गे यद्येषो नीलतां" ब्रजेत्" । स्निग्धं तदा फलं ज्ञेयं नागरं जायते तदा ॥
१० (0-9) 1C°नयः। 2 BD वसन्ते। 3 C नृपूजितः। 4 AC अथो। 5C बर्णाः। 6 Cशुक्र। 7 Cव। चरते। 8 C यच्च । 9 C प्राप्यते । 10 C स्य पुरतो। 11 C ते सखे। 12 A B °पाकं; C°सुक्तं । 13 C समासतः। 14 A अवति । 15 A B C श्रवणः। 16 C क्षिप्र। 17 Cसपंडितम् । *D Thisst. is not found in this Ms.I 18 A not found.। 19-21 C वैश्वानरमार्गेण समाश्रितस्य, 21 A समासृतस्य । 22A अपि । । B C D not found in these Mss. ItC not found in this Ms.1 23 A कृत्वा । 24 BD च हितः। 25 A °नृपः; B अतिंद्रितः। 26 A प्रतिवास्तुदयं । 27-28 B शुभाशुभविचेष्टितम्। 29-30 CThese tiwowords are not found in this Ms. 31C पञ्चविंशतिम् । 32 A B विरागत; D चिरागतः। 83 A B D एकान्तरण। 34A चक्रेण। 35-36 A BD गौतमनाम शनैचरः। 37 Cराष्ट्रमान्यः । 38-39 A अतिप्रमा; 39 C विषया। 40-41Cचरते त्रीणि । 42 B युगं । 43 D जानी। 44 B यथा। 45 A B D यदि स । 46 AC D नीलवान् । 47 A D भवेत्;C लवश। 48-49 C पलायन्ते। 50-52C नागराणां जयावहः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |