Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
४३
भद्रबाहुसंहिता
[१५, ४२-६७ यदा वाऽन्येऽभिगच्छन्ति तत्रस्थं भार्गवं ग्रहाः । हिरण्यौषधयश्चैव शौण्डिका' दूतलेखकाः ॥ ४२
___ काश्मीरा बर्बराः' पौण्डा भृगुंकच्छम (च्छा) अनु (नू ) प्र(प)जाः ।
पीड्यन्तेऽवन्तिगाश्चैव म्रियते च नृपास्तथा ॥ नागवीथीति विज्ञेया भरणी-कृत्तिकाऽश्विनी । सत्त्वानां रोहिणी चार्दा गर्जवीथीति निर्दिशेत् ॥ ४४ ऐरावणपथं विन्द्यात पुष्याऽऽश्लेषा-पुनर्वसुः । फाल्गुनौ च मघा चैव वृषवीथीति संज्ञिता ॥ ४५ गोवीथी रेवती चैव द्वे च प्रोष्ठपदे तथा । जरद्वपथं विद्याच्छ्रवणं वसु-वारुणम् ॥ ४६ अजवीथी विशाखा च चित्रा स्वातिः करस्तथा । ज्येष्ठा-मूला-ऽनुराधासु मृगवीथीति संज्ञिता ॥ ४७ अभिजिद् द्वे तथाषाढे वैश्वानरपथः स्मृतः । शुक्रस्याग्रगताद्वीत संस्थानाच फलं वदेत् ॥ ४८ तज्जातप्रतिरूपेण जघन्यो-त्तम-मध्यमम् । स्नेहादिषु शुभं ब्रूयाद् भक्षा(क्ष्या)दिषु" भयं वदेत् ॥ ४९ तिष्यो ज्येष्ठा तथाऽऽश्लेपा सन्ध्याना(यां) मूलमेव च। हस्तं चित्रा मघा-ऽऽषाढे शुक्रो दक्षिणतो व्रजेत्।।५० शुष्यन्ते तोय-धान्यानि राजानः क्षत्रियास्तथा। उग्रभोगाँश्च पीड्यन्ते धननाशो" विनाशकः ॥ ५१ वैश्वानरपथो नामा यदा हेमन्त-ग्रीष्मयोः । मारुता-ऽग्निभयं मृत्युः खारी च चतुःषष्टिका ॥ ५२ एतेषामेव मध्येन यदा गच्छति भार्गवः । विषमं सर्वमाख्याति बीजानि तु स्थले वपेत् ॥ ५३ खारी द्वात्रिंशिका ज्ञेया मृगवीथीति संज्ञिता । व्याधयश्च त्रिषु ज्ञेया यदा चरति भार्गवः ॥ ५४ एतेषां तु यदा शुक्रो बजत्युत्तरतस्तथा । विषमं सर्वमाख्याति भृशं निम्ने" वपेत्ती ॥ कोद्रवाणां बीजानां खारी पोडशिका वदेत् । अजवीथीति विज्ञेया पुनरेपा न संशयः ॥ कृत्तिका रोहिणी चार्दा मघा मैत्रं पुनर्वसुः । स्वातिस्तथा विशाखासु फाल्गुन्योरुभयोस्तथा ॥ ५७ दक्षिणेन यदा शुक्रो बजत्येतैर्यदा समम् । मध्यमं वर्षमाख्याति समे वीजानि वापयेत् ॥ *निष्पद्यते तथा शस्यं मन्देनाप्यथ वारिणा । जरद्वपथश्चैव खारी द्वादशिका भवेत् ॥ एतेषामेव मध्येन यदा गच्छति भार्गवः । तदाऽपि मध्यम वर्षं मीपत् पूर्वा' विशिष्यते ॥ ६० सर्व निष्पद्यते धान्यं न व्याधिर्नापि चेतयः। खारी तदाऽष्टिका ज्ञेया सौं वीथी सारसंज्ञितौ ॥ ६१ एतेषामेव यदा शुक्रो व्रजत्युत्तरतस्तदा । मध्यमं सर्वमाचष्टे नेतयो नापि व्याधयः ।। ६२ निष्पत्तिः सर्वधान्यानां भयं चात्र न मूर्च्छति । खारीचतुष्कं विज्ञेयं वृषवीथीति संज्ञिता ॥ ६३ अभिजिच्छ्रवणं चापि धनिष्ठा वारुणं तथा । रेवती भरणी चैव तथा भाद्रपदाऽश्विनी ॥ ६४ निचयास्तदा विपद्यन्ते खारी विन्द्याच्च पञ्चिका । ऐरावणपथो ज्ञेयो श्रेष्ठं एवं प्रकीर्तितः ॥ ६५ ए[ते]षां यदा दक्षिणतो भार्गवः प्रतिपद्यते। बहूदकं तदा विद्यात् महा(हद्)धान्यं स्थले वपेत् ॥ ६६ जैलजानि तु शोभन्ते ये च जीवन्ति वारिणा । खारी तदाष्टिका ज्ञेया गजवीीति संज्ञिता॥ ६७
1A सौण्डिकाः। 2 Cदर्दराः। 3A पौद्रः B योज्याः। 4 A. भेरु'; B भद्र; C दारु । 5 B अनुप्रजाः; CD पकृपजाः। 6 A सन्ध्यान: Bसौम्यानां। 7 CD राज ।। °नुगतात् । 10 B C तज्ञात; D ते ज्ञात । 11 C वृक्षा। 12 B सन्ध्यानो; C सत्वानां; D सन्ध्यानां । 13 A पीड्यन्ते । 14 C अग्रतोयाः। 15 APासो। 16A B विनायकम् ; D विनाशिकः। 17AD तृषु । 18-19 C न च तदा। * A This is not found in this Ms. 20 A इषि । 21 A gala it This second half and the next stanza are missing in this Ms. 22 A 1 23 A सा च। 24 A संज्ञता। 25ABC यामेव। 26Cमुति। C This st. follows the next st. in this Ms. 27-28 A अष्टापच । 29 A एषा। D This st, is not found in this Ms. 30 C राजवीथी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150