Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 81
________________ भद्रबाहुसंहिता [ १०, २१-४५ २१ २३ २४ एकोनविंशतिर्विन्द्यादाढकानि न संशयः । भरण्यां वासवश्चैव यदा कुर्यात् प्रवर्षणम् ॥ व्यालः सरीसृपाचैव * मरणं व्याधयो रुर्जः । सस्यं कनिष्ठकं ज्ञेयं प्रजाः सर्वाश्च दुःखिताः ॥ २२ आढकान्येकपञ्चाशत् कृत्तिकासु समादिशेत् । तदात्वपग्रहो ज्ञेयः सप्तविंशतिरात्रकः ॥ द्विमासिकस्तदा मेर्घंश्चित्रं सस्यमुपद्रवम् । निम्नेषु वापयेद् बीजं भयमग्नेर्विनिर्दिशेत् ॥ + आढकान्येनवर्ति f रोहिण्यामभिनिर्दिशेत् । अपग्रहं विजानीयात् सर्वमेकादशाहिकाम् ॥ क्षेमं सुभिक्षमारोग्यं नैर्ऋतीयं बहूदकम् । स्थलेषु वापयेद् बीजं राज्ञो " विजयमादिशेत् ॥ आढकान्येकनवतिं सौम्यर्क्षे वर्षते यदा । तदाऽप्यपग्रहं विन्द्याद्वासराणि चतुर्दश " ॥ महामात्याच पीड्यते बहुव्याधिं विनिर्दिशेत् । ||सुभिक्षं चैव विज्ञेयं दंष्ट्रिणः प्रबलास्तथा ॥ आढकानि तु द्वात्रिंदार्द्रायामभिनिर्दिशेत् । दुर्भिक्षं" व्याधिमरणं सस्यघातमुपद्रवम् ॥ श्रावणे प्रथमे मासे * * वर्षित्वा न च वर्षति । प्रोष्ठपदं च वर्षित्वा शेषकालं न वर्षति ॥ आढकान्येक[न]वतिं विन्द्याचैव पुनर्वसोः । सस्यं निष्पद्यते क्षिप्रं व्याधिश्च बलवान् विदुः ॥ चत्वारिंशश्च द्वे वाऽपि जानीयादाढकान्यथ । पुष्येण मन्दवृष्टिश्च निम्ने बीजानि वापयेत् ॥ पक्षमश्वयुजे मासे पक्षं प्रोष्ठपदे तथा । अपग्रहं विजानीयाद् बहुलेऽपि प्रवर्षणम् ॥ ++सस्यघातं विजानीयाद् व्याधिभिचोदकेन च । साधवो दुःखिता विन्द्यात्प्रोष्ठपदमपग्रहः ॥ मघासु खारी विज्ञेया सस्यानां च समुद्भवम् । कुक्षिव्याधिश्च बलवाननीतिश्च तु जायते ॥ फाल्गुनीषु च पूर्वासु यदा देवः " प्रवर्षति । खारी तदाऽऽदिशेत् पूर्णा तदा स्त्रीणां च तत्सुखम् ॥ ३६ सस्यानि फलवन्ति स्युर्वाणिज्यानि" दिशन्ति" च । अपग्रहश्चतुस्त्रिंशच्छ्रावणे सप्तरात्रिकः || उत्तरायां तु फाल्गुन्यां षष्टिसप्त च निर्दिशेत् । आढकानि सुभिक्षं च क्षेममारोग्यमेव च ॥ दानशीलाश्च मनुजा (मानवा) धर्मशीलाश्च साधवः । अप [ ] हं विजानीयात् कार्तिके द्वादशाहिकम् ॥ ३९ पञ्चाशीतिं विजानीयाद् हस्ते प्रवर्षणं यदा । तदा निम्नानि वाप्यानि पञ्चवर्णं च जायते" ॥ ४० सङ्ग्रामाचात्र वर्धन्ते शिल्पिकानां सुखोत्तमम् । श्रावणा ऽश्वयुजौ मासौ" तथा कार्त्तिकमेव च ॥ ४१ अपग्रहं विजानीयान्मासे मासे दशाहिकम् । चौराश्च बलवन्तश्च उत्पद्यन्ते च पार्थिवाः ॥ द्वात्रिं (f) माढकानि स्युचित्रायां वर्षणं यदा । चित्रं विन्द्यात् तदा सस्यं चित्रं वर्षं विनिर्दिशेत् ॥ ४३ नित्रेषु" वापयेद् बीजं स्थलेषु परिवर्जयेत् । मध्यमं तं विजानीयाद् भद्रबाहुवचो यथा ॥ द्वात्रिंशदकानि स्युः स्वातौ प्रवर्षणं यदा । वायुवृष्टिनावृष्टिमासमेकं च वर्षति ॥ ३३ ३४ ३५ ३७ ३८ ४२ ४४ ४५ 1 A एकोना; C एकान्यूना । 2ABD तदा व्यालाः । 3 A B D it is not found in these Mss. * A मृत्युव्याधितो विविधैः रुजेः । 4 C व्याधि | 5 C घोरयः । 6 ABD द्वौ । 7 AD मासकः । 8 C देवः । 9 C जय | CThe first quarter is missing in this Ms. + B The three following quarters are not found in this Ms. 10 ABD मपि । 11 C राज्ञश्च | 12 C भयम् । $ D This st. is not found in this Ms. 1 B तदा प्रवर्षणं विद्यात् 13 A सप्त । 14 A मेकादशाहिका । 15 A महामात्रा; B महामंत्रा; C महामंत्रा । $ ABD चतुर्व्याधिश्व जायंते । || ABD क्षेमं सुभिक्षमारोग्यं । 16 A द्वाविंश | 17 CD सुभिक्षम् । 18 C क्षेम । ** C वर्षश्चैव पुनः पुनः । ++ This stanza is preceded by the following stanza in B C D : - चतुःषष्टिमाढकानि त्यदा वर्षति वासवः । यथाऽऽश्लेषासु प्रथमं कुरुते च प्रवर्षणम् ॥ 19 A मेघः । # A स्त्री चलतु मुखम् | 20 A वणयो । 21 A निविंशन्ति । 22 C चतुर्विंशत | 23 A पञ्चवर्णे । 24-25 A विज्ञायते । 26 A BD वातः । 27 A दसाधिकाम् | 28 B द्वात्रिंशम् | 29 C मिश्रेषु । 30-31 C मध्यमानां समा । 32 C विद्यात् । 33 A रश्मिः; C मग्निम् । 34 A अन्यदृष्टिः । 35A B वर्षम् । १६ Jain Education International For Private & Personal Use Only २५ २६ २७ २८ २९ ३० ३१ ३२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150