Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 82
________________ ४८ १०,४६-५४; ११, १-१३] एकादश अध्याय विशाखासु विजानीयात् खारिरेव न संशयः । सस्यं संपद्यते सर्वं वाणिज्यं पीड्यते न हि ॥ ४६ अपग्रहं तु जानीयाद् दशाहं प्रौष्ठपादिकम् । क्षेसं सुभिक्षमारोग्यं *तां समां नाऽत्र संशयः॥ ४७ जानीयादनुराधायां खारिं प्रवर्षणं यदा । क्षेमं सुभिक्षमारोग्यं परचक्रं प्रशाम्यति ॥ दूर' प्रवासिका यान्ति धर्मशीलाश्व मानवाः । मैत्री च स्थावरा ज्ञेया शाम्यन्ते' चेतयस्तदा ॥ ४९ ज्येष्ठायामाढकानि स्युश्चतुःषष्टिं विनिर्दिशेत् । स्थलेषु वापयेद् बीजं तदा भूदाह विद्रवः॥ ५० मूले खारी विजानीयात् सस्यं सर्वं समृद्ध्यति । एकमूलानि पीड्यन्ते चौराश्च प्रबलाश्च ये॥ ५१ एतद् व्यासेन कथितं समासेन पुनः शृणु । भद्रबाहुवचः श्रुत्वा मतिमानवधारयेत् ॥ ५२ द्वात्रिंशदाढकानि स्युः नक्रमासेषु (?) निर्दिशेत् । समक्षेत्रे" द्विगुणितं तत् त्रिगुणं बाधितेषु च ॥५३ उल्कावत् साधनं चात्र वर्षणं च विनिर्दिशेत् । शुभाऽशुभं ततो वाच्यं सम्यग् ज्ञात्वा यथाक्रमम् ॥ ५४ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्त वर्षाध्यायो दशमः ॥ अथातः संप्रवक्ष्यामि गन्धर्वनगरं तथा । शुभा-ऽशुभं" तु" भूतानां नैर्मन्थे निपुणे" यथा ॥ १ पूर्वसूरे यदा घोरं गन्धर्वनगरं भवेत् । नागराणां वधं विन्द्यात् तदा घोरमसंशयम् ॥ २ **अस्तं याते यथाऽऽदिये गन्धर्वनगरं भवेत् । यायिनां च तदा विन्द्याद् वधं घोरमुपस्थितम् ॥ ३ रक्तं गन्धर्वनगर दिशं दीप्तां यदा भृशम् । शस्रोत्पातं तदा विन्द्याद् दारुणं समुपस्थितम् ॥ ४ पीतं गन्धर्वनगरं दिशं" याम्यां" यदा" भृशम्" । व्याधिं तदा विजानीयात् प्राणिनां मृत्युसन्निभम् ॥ ५ कृष्णं गन्धर्वनगरमपरस्यां सृतं दिशि । वधं तदा विजानीयाद् भयं वा शूद्रयोनिजम् ॥ ६ श्वेतं गन्धर्वनगरं दिशं सौम्यां यदा भृशम् । राज्ञो विजयमाख्याति नगरस्य धनान्वितम् ॥ ७ सर्वास्वपि यदा दिक्षु गन्धर्वनगरं भवेत् । सर्वे वर्णा विरुध्यन्ते सर्वदिक्षु परस्परम् ॥ ८ कपिलं सस्यघाताय माञ्जिष्ठं हरिणं(तं) तथौ । अव्यक्तवर्ण कुरुते बलक्षोभं समन्ततः ॥ . ९ गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । शान्तदिशि समाश्रित्य राज्ञस्तद् विजयङ्करम् ॥ १० गन्धर्वनगरं(रे) व्योग्नि परुष" यदि दृश्यते । वाताशनिनिपातांस्तु तत् करोति सुदारुणम्(णान्)॥११ इन्द्रीऽऽयुधसवर्ण" च धूमानिसदृशं च यत् । तदाग्निभयमाख्याति गन्धर्वनगरं नृणाम् ॥ १२ खण्डं विशीर्ण छिद्र वाँ गन्धर्वनगरं यदा । तदा तस्करसङ्घाना, स भयो" जायते भुवि ॥ १३ __ * C परचक्रं प्रशाम्यति ॥ + C This st. is missing in this Ms. 1 A B D दूरा। 2 A साध्यन्ते: Cशस्येते। 3C च भयं। 4 Cउदक। 5C रक्तानि । A B] 6A BD समासः। 7 A B D श्रूयतां । 8 A BD पुनः। 8 A मतिमानुपगृतहीत भद्रबाहुप्रवर्षणम् । BD मतिमानुपधारेत भद्रबाहुप्रवर्षणम् ॥ 9 A BD°त्रिंशमा। 10 C नक्तं भावेषु; D नक्तस्तेषु । 11 D विनिर्दिशेत् । 12 A B D समक्षेत्रेषु। 13 A BD त्रिगुणं। 14 A BD वाहिकेषु । [C निर्दिशेत् ज्ञानकोविदः। 15-16 A BD°शुभार्थ। 17-18 AC संप्रभाषितम् । 19 A चौरं। 20 Cवधं । 21 Cउपस्थितम् । ** CThis is missing in this Ms. 22 B निसं। 23 A B °आघातं । 24 Cदिशि। 25 AD दीप्तं; B पीत। 26 C समाश्रितं । 27 A दिशाम्; B भवेत् । न Cthe same latter half is found in this Ms as in st.4.28 C अपरां। 29 A B मृतं; C संवृतं । 30 ABD वर्ष। 31C नगरं । 32C बंधनान्वितम्। 33-34 C हारयेद्यं । 35 C असंशयः। 36C पांडु। 37 C पुरुषं। 38 A वाता च । 39 A सन्निपातांस्तु । 40 C चंद्र। 41 A BD°सुवर्ण । 42 Bधुम्र। 43 Cविकीर्ण; Dविशीर्णम् । 44 B°वर्ण: D सच्छिदं। 45AD it is not found. Bच। 46 A°सन्धानम्; Cसंवातम्। 47 AC अनयो। भ० सं०३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150