________________
४८
१०,४६-५४; ११, १-१३] एकादश अध्याय विशाखासु विजानीयात् खारिरेव न संशयः । सस्यं संपद्यते सर्वं वाणिज्यं पीड्यते न हि ॥ ४६ अपग्रहं तु जानीयाद् दशाहं प्रौष्ठपादिकम् । क्षेसं सुभिक्षमारोग्यं *तां समां नाऽत्र संशयः॥ ४७ जानीयादनुराधायां खारिं प्रवर्षणं यदा । क्षेमं सुभिक्षमारोग्यं परचक्रं प्रशाम्यति ॥ दूर' प्रवासिका यान्ति धर्मशीलाश्व मानवाः । मैत्री च स्थावरा ज्ञेया शाम्यन्ते' चेतयस्तदा ॥ ४९ ज्येष्ठायामाढकानि स्युश्चतुःषष्टिं विनिर्दिशेत् । स्थलेषु वापयेद् बीजं तदा भूदाह विद्रवः॥ ५० मूले खारी विजानीयात् सस्यं सर्वं समृद्ध्यति । एकमूलानि पीड्यन्ते चौराश्च प्रबलाश्च ये॥ ५१ एतद् व्यासेन कथितं समासेन पुनः शृणु । भद्रबाहुवचः श्रुत्वा मतिमानवधारयेत् ॥ ५२ द्वात्रिंशदाढकानि स्युः नक्रमासेषु (?) निर्दिशेत् । समक्षेत्रे" द्विगुणितं तत् त्रिगुणं बाधितेषु च ॥५३ उल्कावत् साधनं चात्र वर्षणं च विनिर्दिशेत् । शुभाऽशुभं ततो वाच्यं सम्यग् ज्ञात्वा यथाक्रमम् ॥ ५४
॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्त वर्षाध्यायो दशमः ॥
अथातः संप्रवक्ष्यामि गन्धर्वनगरं तथा । शुभा-ऽशुभं" तु" भूतानां नैर्मन्थे निपुणे" यथा ॥ १ पूर्वसूरे यदा घोरं गन्धर्वनगरं भवेत् । नागराणां वधं विन्द्यात् तदा घोरमसंशयम् ॥ २ **अस्तं याते यथाऽऽदिये गन्धर्वनगरं भवेत् । यायिनां च तदा विन्द्याद् वधं घोरमुपस्थितम् ॥ ३ रक्तं गन्धर्वनगर दिशं दीप्तां यदा भृशम् । शस्रोत्पातं तदा विन्द्याद् दारुणं समुपस्थितम् ॥ ४ पीतं गन्धर्वनगरं दिशं" याम्यां" यदा" भृशम्" । व्याधिं तदा विजानीयात् प्राणिनां मृत्युसन्निभम् ॥ ५ कृष्णं गन्धर्वनगरमपरस्यां सृतं दिशि । वधं तदा विजानीयाद् भयं वा शूद्रयोनिजम् ॥ ६ श्वेतं गन्धर्वनगरं दिशं सौम्यां यदा भृशम् । राज्ञो विजयमाख्याति नगरस्य धनान्वितम् ॥ ७ सर्वास्वपि यदा दिक्षु गन्धर्वनगरं भवेत् । सर्वे वर्णा विरुध्यन्ते सर्वदिक्षु परस्परम् ॥ ८ कपिलं सस्यघाताय माञ्जिष्ठं हरिणं(तं) तथौ । अव्यक्तवर्ण कुरुते बलक्षोभं समन्ततः ॥ . ९ गन्धर्वनगरं स्निग्धं सप्राकारं सतोरणम् । शान्तदिशि समाश्रित्य राज्ञस्तद् विजयङ्करम् ॥ १० गन्धर्वनगरं(रे) व्योग्नि परुष" यदि दृश्यते । वाताशनिनिपातांस्तु तत् करोति सुदारुणम्(णान्)॥११ इन्द्रीऽऽयुधसवर्ण" च धूमानिसदृशं च यत् । तदाग्निभयमाख्याति गन्धर्वनगरं नृणाम् ॥ १२ खण्डं विशीर्ण छिद्र वाँ गन्धर्वनगरं यदा । तदा तस्करसङ्घाना, स भयो" जायते भुवि ॥ १३
__ * C परचक्रं प्रशाम्यति ॥ + C This st. is missing in this Ms. 1 A B D दूरा। 2 A साध्यन्ते: Cशस्येते। 3C च भयं। 4 Cउदक। 5C रक्तानि । A B] 6A BD समासः। 7 A B D श्रूयतां । 8 A BD पुनः। 8 A मतिमानुपगृतहीत भद्रबाहुप्रवर्षणम् । BD मतिमानुपधारेत भद्रबाहुप्रवर्षणम् ॥ 9 A BD°त्रिंशमा। 10 C नक्तं भावेषु; D नक्तस्तेषु । 11 D विनिर्दिशेत् । 12 A B D समक्षेत्रेषु। 13 A BD त्रिगुणं। 14 A BD वाहिकेषु । [C निर्दिशेत् ज्ञानकोविदः। 15-16 A BD°शुभार्थ। 17-18 AC संप्रभाषितम् । 19 A चौरं। 20 Cवधं । 21 Cउपस्थितम् । ** CThis is missing in this Ms. 22 B निसं। 23 A B °आघातं । 24 Cदिशि। 25 AD दीप्तं; B पीत। 26 C समाश्रितं । 27 A दिशाम्; B भवेत् । न Cthe same latter half is found in this Ms as in st.4.28 C अपरां। 29 A B मृतं; C संवृतं । 30 ABD वर्ष। 31C नगरं । 32C बंधनान्वितम्। 33-34 C हारयेद्यं । 35 C असंशयः। 36C पांडु। 37 C पुरुषं। 38 A वाता च । 39 A सन्निपातांस्तु । 40 C चंद्र। 41 A BD°सुवर्ण । 42 Bधुम्र। 43 Cविकीर्ण; Dविशीर्णम् । 44 B°वर्ण: D सच्छिदं। 45AD it is not found. Bच। 46 A°सन्धानम्; Cसंवातम्। 47 AC अनयो।
भ० सं०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org