Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan
View full book text
________________
ww
भद्रबाहुसंहिता
[१४,१२२-१४६ निर्जीवाभाषणे हासे जलरोधे' प्रधावने । जातमात्रस्य तु शिशोः सुमहद्भयमादिशेत् ॥ १२२ निवर्तते यदा छाया परिग्रस्ता जलाश्रयात् । प्रदृश्यते च दैत्यानां सुमहद्भयलक्षणम ॥ १२३ अंद्वारे द्वारकरणं कृतस्य च विनाशनम् । हतस्य ग्रहणं वाऽपि तदा ह्युत्पातलक्षणम ॥ १२४ यजने छादनं यस्य ज्वलिताङ्गमथाऽपि वा। स्पंदते वा स्थिरं किञ्चिन कुलहानि तदाऽऽदिशेत् ॥ १२५ दैवज्ञा भिक्षवः प्राज्ञाः साधवश्व पृथग्विधाः । परित्यजन्ति तं देशं ध्रुवमन्यत्र शोभनम् ॥ १२६ युद्धानि कलहा बाधा विरोधा-ऽरिविवृद्धयः । अभीक्ष्णं यत्र वर्तन्ते तं देशं परिवर्जयेत् ॥ १२७ विपरीता यदा छाया दृश्यन्ते वृक्ष-वेश्मनि । यदा ग्रामे पुरे वाऽपि प्रधानवधमादिशेत् ॥ १२८ महावृक्षो यदा शाखामुत्करां मुञ्चते द्रुतम् । भोजकस्य वधं विन्द्यात् सर्पाणां वधमादिशेत् ॥ १२९ पांशुवृष्टिस्तथोल्की च निर्घाताश्च सुदारुणाः । यदा पतन्ति युगपद् घ्नन्ति राष्ट्रं सनायकम् ॥ १३० रसाश्च विरसा यत्र नायकस्य॑ च दूषणम् । तुलामानस्य हसनं राष्ट्रनाशाय तद्भवेत् ॥ १३१ शुक्लप्रतिपदि चन्द्रे समं भवति मण्डलम् । भयंकरं तदा तस्य नृपस्याथ न संशयः ॥ १३२ समाभ्यां यदि शृङ्गाभ्यां यदा दृश्येत चन्द्रमाः। धान्यं भवेत् तदर्दी न्यून" मन्दवृष्टिं विनिर्दिशेत् !॥ १३३ वामशृङ्गं यदा वा स्यादुद्यतं दृश्यते भृशम् । तदा सृजति लोकस्य दारुणत्वं न संशयः ॥ १३४ ऊर्ध्वस्थितं नृणां पापं तिर्यक्स्थं राजमत्रिणाम् । अधोगतं च वसुधां सर्वा हन्यादसंशयम् ॥ १३५ शस्त्रं रक्ते भयं पीते धूमे दुर्भिक्षविद्रवे । चन्द्रे तदोदिते ज्ञेयं भद्रबाहुवचो यथा ।।।
१३६ दक्षिणात्परतो दृष्टं चोरदूतभयङ्करम् । अपरे तोयजीवानां वायव्ये हन्ति वै गर्दम् ॥ शस्त्र-कीटेषु बालेषु विवादेषु च लिङ्गिषु । वाहनेषु च दृष्टेषु विन्द्याद्भयमुपस्थितम् ।। अवं वृषो यदा नर्देत् तदा स्याश्च भयङ्करः । ककुदं" चलते वापि तदाऽपि स भयङ्करः ॥ १३९ व्याधयः बला यत्र माल्य(यं)गन्धं न वायते । आहूतिपूर्णकुम्भाश्च विनश्यन्ति भयं वदेत् ॥ १४० नववस्त्रं प्रसङ्गेन ज्वलते मधुरों गिरा" । अरुन्धतीं न पश्येत स्वदेहं यदि दर्पणे ॥ १४१ न पश्यति स्वकार्याणि कार्य विशारदः । मैथुने यो निरक्तश्च न च सेवति मैथुनम् ॥ १४२ न मित्रचित्तो भूतेषु स्त्री वृद्धं सेवते शिशुम् । विपरीतश्च सर्वत्र सर्वदा स भयावहः ॥ १४३ अभीक्ष्णं पापस्वप्नस्य (श्च) निरुत्साहो विचिन्तितः। अलक्ष्मीपूर्णो न चिरात् प्राप्नोति स महद्भयम् ॥१४४ क्रव्यादाः शकुना यत्र बहुशो विकृतस्वनाः । यत्रेन्द्रियार्थाः पिशुनाः श्रियों हीनाश्च मानवाः ॥ १४५ निपतति द्रुमश्छिन्नो वपुश्च" हयलक्षणम् । रत्नानि यस्य नश्यन्ति बहुशः प्रज्वलन्ति वा ॥ १४६
1D ललरोधः । 2 A B C न is additionally found before this word in these Ms. 3C परितच्छा। 4 A D दैत्यायां; C दैत्यायाः। * A thisst. is missing in this Ms. C सर्वमुत्पातलक्षणम् ॥ B this is not found in this Ms. 5A BC मुत्तरे। 6A तथोष्णा: BD तथोक्ता। 7 C मानुषस्य । 8A B D तुलामानस्य । 8 A BD समं चन्द्रमसंशयम् । 9 B भवति;C तदा। 10-11 B दुर्भिक्षं; 10 D दुःखं । | BD दारुणत्वमयं भयम् । 12 A वोद्भूतं च; B चौरोधत । || A चयो व्यहन्ति चां वधाम् । 13-14 B D चावधम् । 15 BD वृष्टो; C वृक्षो। 16 A नादि: C गर्जेत् । 17 C कुकुटाः। 18Cलभते । 19 A प्रलया। 20 A बनवन। 21Cदापयेत् । %C आहुति पूतिगन्धाच विनाशाय न संशयः। 22 A च। 23 A प्रमूहोत; B D प्रसहोत। 24 A ज्वलतो। 25-26 C वा न संपदा । 27 A B अनुदरी । * * C मिहमुंचंति यो नरः। 28 A B°भूतो; D वित्तो। 29 A वित्तेषु B वृत्तेषु । 30 Cनविधः। 31 Aवियंवित: C अल्पविस्मृतिः। 32-34 A अचिरानियतम् । 350विगुणाः। 36 AC स्त्रिया।ttC not found in this Ms, 37 A स्वमः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150