Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 78
________________ २३ २७ ९, २३-४६] नवम अध्याय आषाढीपूर्णिमायां तु वायुः स्यादुत्तरापरः । मक्षिको दंशमशका जायन्ते प्रबलास्तदा ॥ मध्यमं क्वचिदुत्कृष्टं वर्ष सस्यं च जायते । नूनं च मध्यमं किञ्चिद् धान्यार्थं तत्र निर्दिशेत् ॥ २४ आषाढीपूर्णिमायां तु वायुः पूर्वोत्तरो यर्दा । वापयेत् सर्वबीजानि *तदा चौरांश्च घातयेत् ॥ २५ स्थलेष्वपि च यद्बीजमुप्यते तत् समृद्ध्यति । क्षेमं चैव सुभिक्षं च भद्रबाहुवचो' यथा ॥ २६ बहूदका सस्यवती यज्ञोत्सवसमाकुला । प्रशान्तडिम्भ-डमरों शुभी भवति मेदिनी ॥ पूर्वो" वातः स्मृतः श्रेष्ठः तथा चाप्युत्तरो भवेत् । उत्तमस्तु तथैशानो मध्यमस्त्वपरोत्तरः॥ २८ अपरस्तु ताँ न्यूनः शिष्टो वातः प्रकीर्तितः । पापे नक्षत्र-करणे मुहूर्ते च तथा भृशम् ॥ २९ पूर्ववातं यदा हन्यादुदीर्णो दक्षिणोऽनिलः । न तत्र वापयेद् धान्यं कुर्यात् संचयमेव च ॥ ३० दुर्भिक्षं चाप्यवृष्टिं च शस्त्रं रोग जनक्षयम् । कुरुते सोऽनिलो घोरं आषाढाभ्यन्तरं परम् ॥ ३१ पापघाते तु वातानां श्रेष्ठं सर्वत्र चादिशेत् । श्रेष्ठानपि यदा हन्युः पापाः पापं तदाऽऽदिशेत् ॥ ३२ यदा वाताश्चत्वारो भृशं वान्त्यपसव्यतः । अल्पोदं सस्यसङ्घातं भयं व्याधि प्रकुर्वते ॥ ३३ प्रदक्षिणं यदा वांति त एव सुखशीतलाः । क्षेमं सुभिक्षमारोग्यं राज्यवृद्धिर्जयस्तथा ॥ ३४ समन्ततो यदा वान्ति परस्परविघातिनः । शस्त्रं जनक्षयं रोगं सस्यघातं च कुर्वते ॥ ३५ एवं विज्ञाय वातानां संयता भैक्षवर्तिनः । प्रशस्तान्यत्र पश्यन्ति वसेयुस्तत्र निश्चितम् ।। ३६ आहारस्थितयः सर्वे जङ्गमस्थावरास्तथा । जलसम्भवं च सर्वं तस्यापि जननोऽ(कोs)निलः ॥ ३७ सर्वकालं प्रवक्ष्यामि वातानां लक्षणं परम् । आषाढीवत् तत् साध्यं यत् पूर्व सम्प्रकीर्तितम् ॥ ३८ पूर्ववातो यदा तूर्ण सप्ताहं वाति कर्कशः । स्वस्थाने नाभिवर्षेत महदुत्पद्यते भयम् ॥ ३९ प्राकार-परिखानां वा शंखाणां च समन्ततः । निवेदयति राष्ट्राणां विनाशं तादृशोऽनिलः ।। ४० सप्तरात्रं दिनाधं च यः कश्चिद् वाति मारुतः । महद्भयं च विज्ञेयं वर्ष वाऽथ महद् भवेत् ॥ ४१ पूर्वसन्ध्यां यदा वायुरंपसव्यं प्रवर्त्तते । पुरावरोधं कुरुते याथिनां तु जयावहः ॥ ४२ पूर्वसन्ध्यां यदा वायुः संप्रवाति प्रदक्षिणः । नागराणां जयं कुर्यात् सुभिक्षं यायि' विद्रवम् ॥ ४३ मध्याह्ने चार्धरात्रे च तथा वाऽस्तमनोदये । वायुस्तूर्णं यदा वाति तदाऽवृष्टिंभयं रुजा ॥ ४४ यदा राईः प्रयातस्य प्रतिलोमोऽनिलो भवेत् । अपसव्यो समार्गस्य (स्थ)स्तदा सेनावधं विदुः ॥ ४५ अनुलोमो यदा स्निग्धः संप्रवाति प्रदक्षिणः । नांगराणां जयं कुर्यात्सुभिक्षं च प्रदीपयेत् ॥ ४६ . 1A °काण्डं। 2 A किञ्चि। 3-4 C नात्र संशयः। 5-6 A स्यात् पूर्व-उत्तरः। * Cचौराणां समपद्रवम॥ 7 A°वदे। 8A सैन्यो। 9Cप्रशान्ता। 10C These letters are missing in this Ms. 11C सदा। 12-13 C पूर्वोत्तरः। 14 A B D उत्तरा। 15 A परोत्तरः; C परोत्तरा। 16 Cततो। 17 A नूनं; BD नूनः। 18-19 A सस्यवाता; Cशिष्टपोया; D शिष्टा वाताः। 20 A वांपे। 21A दक्षिणानलः; B दक्षिणोऽनलः। 22 A°घातेषु। 23 A नागानाम्। 24 AD श्रेष्ठः । 25A श्रेष्ठात्तापि। 26-27 A पयोत्युपं । 28 A अपसर्वत: C यसमन्ततः। 29 A BD पोदकं । 30 ABD पयघातं। 31A परिविधानिलः। 32 A सत्त्वं । 33 C भयं। 34 Cवातांस्तु । 35C संघयता। 36 Cविज्ञाय। 37 C निश्चिताः। 38 B °सम्भ्रम। 39 C जलदो। 40-41 A BD लक्षणान्वितम् । || Cशस्त्रकोपभयं ततः। 42 A दिवा वार्द्ध; B दिवा चार्द्धD दिवा साई। 43 A BD वातो। 44 A BD महान् । A रपरसन्ध्या द्रवात् पुरः; B पर सन्ध्या द्रवात् परम्: D प्रवास्यते। 45 B जायिनां; A वापिना। 46 D भयं । 47 A BD चापि । 48 A विद्वाम् । 49 B C D वृष्टि। 50 A राज्ञा; C राज्ञं। 51 A BD समार्गस्य; C विमार्गस्थो। 52 A 'भयं । 1C प्रदीप्तवार्तशब्दश्च तदा क्षिप्रं जयावहः॥ 53 AD प्रदीपसन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150