________________
२३
२७
९, २३-४६]
नवम अध्याय आषाढीपूर्णिमायां तु वायुः स्यादुत्तरापरः । मक्षिको दंशमशका जायन्ते प्रबलास्तदा ॥ मध्यमं क्वचिदुत्कृष्टं वर्ष सस्यं च जायते । नूनं च मध्यमं किञ्चिद् धान्यार्थं तत्र निर्दिशेत् ॥ २४ आषाढीपूर्णिमायां तु वायुः पूर्वोत्तरो यर्दा । वापयेत् सर्वबीजानि *तदा चौरांश्च घातयेत् ॥ २५ स्थलेष्वपि च यद्बीजमुप्यते तत् समृद्ध्यति । क्षेमं चैव सुभिक्षं च भद्रबाहुवचो' यथा ॥ २६ बहूदका सस्यवती यज्ञोत्सवसमाकुला । प्रशान्तडिम्भ-डमरों शुभी भवति मेदिनी ॥ पूर्वो" वातः स्मृतः श्रेष्ठः तथा चाप्युत्तरो भवेत् । उत्तमस्तु तथैशानो मध्यमस्त्वपरोत्तरः॥ २८ अपरस्तु ताँ न्यूनः शिष्टो वातः प्रकीर्तितः । पापे नक्षत्र-करणे मुहूर्ते च तथा भृशम् ॥ २९ पूर्ववातं यदा हन्यादुदीर्णो दक्षिणोऽनिलः । न तत्र वापयेद् धान्यं कुर्यात् संचयमेव च ॥ ३० दुर्भिक्षं चाप्यवृष्टिं च शस्त्रं रोग जनक्षयम् । कुरुते सोऽनिलो घोरं आषाढाभ्यन्तरं परम् ॥ ३१ पापघाते तु वातानां श्रेष्ठं सर्वत्र चादिशेत् । श्रेष्ठानपि यदा हन्युः पापाः पापं तदाऽऽदिशेत् ॥ ३२ यदा वाताश्चत्वारो भृशं वान्त्यपसव्यतः । अल्पोदं सस्यसङ्घातं भयं व्याधि प्रकुर्वते ॥ ३३ प्रदक्षिणं यदा वांति त एव सुखशीतलाः । क्षेमं सुभिक्षमारोग्यं राज्यवृद्धिर्जयस्तथा ॥ ३४ समन्ततो यदा वान्ति परस्परविघातिनः । शस्त्रं जनक्षयं रोगं सस्यघातं च कुर्वते ॥ ३५ एवं विज्ञाय वातानां संयता भैक्षवर्तिनः । प्रशस्तान्यत्र पश्यन्ति वसेयुस्तत्र निश्चितम् ।। ३६ आहारस्थितयः सर्वे जङ्गमस्थावरास्तथा । जलसम्भवं च सर्वं तस्यापि जननोऽ(कोs)निलः ॥ ३७ सर्वकालं प्रवक्ष्यामि वातानां लक्षणं परम् । आषाढीवत् तत् साध्यं यत् पूर्व सम्प्रकीर्तितम् ॥ ३८ पूर्ववातो यदा तूर्ण सप्ताहं वाति कर्कशः । स्वस्थाने नाभिवर्षेत महदुत्पद्यते भयम् ॥ ३९ प्राकार-परिखानां वा शंखाणां च समन्ततः । निवेदयति राष्ट्राणां विनाशं तादृशोऽनिलः ।। ४० सप्तरात्रं दिनाधं च यः कश्चिद् वाति मारुतः । महद्भयं च विज्ञेयं वर्ष वाऽथ महद् भवेत् ॥ ४१ पूर्वसन्ध्यां यदा वायुरंपसव्यं प्रवर्त्तते । पुरावरोधं कुरुते याथिनां तु जयावहः ॥ ४२ पूर्वसन्ध्यां यदा वायुः संप्रवाति प्रदक्षिणः । नागराणां जयं कुर्यात् सुभिक्षं यायि' विद्रवम् ॥ ४३ मध्याह्ने चार्धरात्रे च तथा वाऽस्तमनोदये । वायुस्तूर्णं यदा वाति तदाऽवृष्टिंभयं रुजा ॥ ४४ यदा राईः प्रयातस्य प्रतिलोमोऽनिलो भवेत् । अपसव्यो समार्गस्य (स्थ)स्तदा सेनावधं विदुः ॥ ४५ अनुलोमो यदा स्निग्धः संप्रवाति प्रदक्षिणः । नांगराणां जयं कुर्यात्सुभिक्षं च प्रदीपयेत् ॥ ४६
. 1A °काण्डं। 2 A किञ्चि। 3-4 C नात्र संशयः। 5-6 A स्यात् पूर्व-उत्तरः। * Cचौराणां समपद्रवम॥ 7 A°वदे। 8A सैन्यो। 9Cप्रशान्ता। 10C These letters are missing in this Ms. 11C सदा। 12-13 C पूर्वोत्तरः। 14 A B D उत्तरा। 15 A परोत्तरः; C परोत्तरा। 16 Cततो। 17 A नूनं; BD नूनः। 18-19 A सस्यवाता; Cशिष्टपोया; D शिष्टा वाताः। 20 A वांपे। 21A दक्षिणानलः; B दक्षिणोऽनलः। 22 A°घातेषु। 23 A नागानाम्। 24 AD श्रेष्ठः । 25A श्रेष्ठात्तापि। 26-27 A पयोत्युपं । 28 A अपसर्वत: C यसमन्ततः। 29 A BD पोदकं । 30 ABD पयघातं। 31A परिविधानिलः। 32 A सत्त्वं । 33 C भयं। 34 Cवातांस्तु । 35C संघयता। 36 Cविज्ञाय। 37 C निश्चिताः। 38 B °सम्भ्रम। 39 C जलदो। 40-41 A BD लक्षणान्वितम् । || Cशस्त्रकोपभयं ततः। 42 A दिवा वार्द्ध; B दिवा चार्द्धD दिवा साई। 43 A BD वातो। 44 A BD महान् । A रपरसन्ध्या द्रवात् पुरः; B पर सन्ध्या द्रवात् परम्: D प्रवास्यते। 45 B जायिनां; A वापिना। 46 D भयं । 47 A BD चापि । 48 A विद्वाम् । 49 B C D वृष्टि। 50 A राज्ञा; C राज्ञं। 51 A BD समार्गस्य; C विमार्गस्थो। 52 A 'भयं । 1C प्रदीप्तवार्तशब्दश्च तदा क्षिप्रं जयावहः॥ 53 AD प्रदीपसन् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org