________________
भद्रबाहुसंहिता
[ ८, २५, ९, १-२२
उल्कावत् साधनं ज्ञेयं' मेघेष्वपि तदाऽऽदिशेत् । अतः परं प्रवक्ष्यामि वातानामपि लक्षणम् ॥ २५ ॥ इति नि (नै) ग्रन्थे भद्रबाहुके निमित्ते मेघकाण्डं नामाष्टमोऽध्यायः ॥
१२
अथातः संप्रवक्ष्यामि वातलक्षणमुत्तम । प्रशस्तमप्रशस्तं च यथावदनुपूर्वशः ॥ बर्ष भयं तथा क्षेमं राज्ञो जय-पराजयम् । मारुतः कुरुते लोके जन्तूनां पुण्य-पापजं ॥ * आदानाचैव पाताच्च पत (च ) नाच विसर्जनात् । मारुतः सर्वगर्भाणां वलवान्नायक सः ॥ दक्षिणस्यां दिशि यदा वायुर्दक्षिणकाष्टिकः । समुद्रानुशयो' नाम स गर्भाणां तु संभवः ॥ तेन जनितं गर्भं वायुर्दक्षिणकाष्टिकः । धारयेद् धारणे" मासे पाचयेत् पाचने तथा ॥ धारितं पाचितं गर्भं वायुरुत्तरकाष्टिकः । प्रमुखति ततस्तोयं वर्षतमरुतोच्यते ॥
१०
१२
१३
१४
आषाढी पूर्णिमायां तु पूर्ववातो यदा भवेत् । प्रया ( वा ) ति दिवसं सर्वं सुवृष्टिस्तु तदा मत ॥ वाप्यानि सर्वबीजानि" जायन्ते निरुपद्रवम् । शूद्राणामुपघाताय सोऽत्र लोके परत्र च ॥ दिवसार्धं यदा वाति पूर्वमासौ" तु सोदकौ" । चतुर्भागेण मासस्तु शेषं ज्ञेयं" यथाक्रमम् ॥ पूर्वार्धदिवसे ज्ञेय" पूर्वमासौ तु सोदकौ" । पश्चिमे पश्चिमौ मासौ ज्ञेयौ द्वावपि सोदकौ ॥ हित्वा पूर्वं तु दिवसं मध्याह्ने यदि वाति" चेत् । वायुर्मध्यममासातुं तदा मेघो न वर्षति ॥ ११ आषाढीपूर्णिमायां तु दक्षिणो मारुतो यदा । न तदा वापयेत् किञ्चित् ब्रह्म-क्षत्रं च पीडयेत् ॥ धन-धान्यं नै विक्रेयं बलवन्तं च संश्रयेत् । दुर्भिक्षं मरणं" व्याधिस्त्रीसं मासं प्रवर्त्तते ॥ आषाढी पूर्णिमायां तु पश्चिमो यदि मारुतः । मध्यमं वर्षणं सस्यं धान्यार्थं मध्यमं तथा ।। उद्विजंति” च राजानो* वैराणि च प्रकुर्वते । परस्परोपघाताय स्वराष्ट्र - परराष्ट्रयोः ॥ आषाढी पूर्णिमायां तु वायुः स्यादुत्तरो यदा । वापयेत् सर्वबीजानि " सस्यं ज्येष्ठं समृद्ध्यति ॥ १६ क्षेमं सुभिक्षमारोग्यं प्रशान्ताः पार्थिवास्तथा । बहूदकास्तदा मेधा मही" धर्मोत्सवाकुलीं ॥ आषाढीपूर्णिमायां तु वायुः स्यात् पूर्वदक्षिणः । राजमृत्युर्विजानीयाच्चित्रं सस्यं तथा जलम् ॥ क्वचिन्निष्प[द्य]ते सस्यं क्वचिञ्चापि विपद्यते । धान्यार्थी मध्यमो ज्ञेयो तदाऽभेश्व" भयं नृणाम् ॥ १९ आषाढी पूर्णिमायां तु वायुः स्याद् दक्षिणापरः । सस्यानामुपघाताय चौराणां तु विवृद्धये " ॥ भस्म-पांशु-रजैस्कीर्णा तदा भवति मेदिनी । सर्वत्यागं तदा कृत्वा कर्तव्यो धान्यसङ्ग्रहः ॥ विद्रवन्ति च राष्ट्राणि क्षीयन्ते नगराणि च । श्वेतास्थिर्मेदिनी ज्ञेया मांस - शोणितकर्द्दमा ||
1
१५
40
१७ १८
46
२०
२१
२२
Jain Education International
१
२
३
४
For Private & Personal Use Only
५
६
७
1 C सर्व । 2 C समा° । 3 BD बात' । 4 C संक्रमम् । 5A ° पूर्वतः । 6 A पापजाम्; C पापयोः । * A B अवातं चैव वातं च पाचनश्च विसर्जनः; D In addition to this line, the line that is found in A and B is also found in this Ms. 7-8 C स्मृतः । + A धारायद्वारणे मे से। 9 B °तियसो । 10 C मध्यम° । 11 A वारणे । 12 C आषाढ । 13 AB पूर्णिमासी; D पौर्णमासी । 14-15 B समासदा; C समास्तदा; D तमासदा । 16 B 'जीवानि । 17 C निरुपद्रवाः । 18 A ° मासे; C मासं । 19 AC सोदकम् । 20 A शेषो; BD शेषौ । 21 A ज्ञेयो; BD ज्ञेयौ । 22 C शेयो । 23 C मासो | 24 C सोदको । + C पूर्वान्हे प्रहरे यत्र पश्चिमेन च वाति चेत् 25-26 A वा भवेत् । 27 C ° मासी । 28 B C D देबो । 29 A ते । 30 A विज्ञेयं । 31 C डामरं । C तस्कराच महद्भयम् । 32 A B D उद्गच्छन्ते 33-34 A तथा राजा; B तथा राजौ; D यथा राजा । 35-36 C वहि कुर्वते; D प्रवर्तते । 37 A परस्परो यथा तोय | 38 A जीवानि । 39 B प्रवर्द्धते; D प्रवर्त्तते । 40 A वसन्तो । 41 C हो । 42 AD महा; C सदा । 43 A D ° कुलाः; C वोधतः । 44-45 A राज्ञां सुखं । 46-48 C शे मध्यमं । 49 D भवेत् । 50 A सस्यदूयः । 51 C रखा |
।
८
९
www.jainelibrary.org