SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ १४ भद्रबाहुसंहिता [९, ४७-६५ अनुलोमाश्च शब्दश्च तदा क्षिप्रं जयावहः । दशाहं द्वादशाहं वा पापवातो यदा भवेत् ॥ अनुबन्धं तदा विन्द्याद् राजमृत्युं जनक्षयम् । यदाऽभ्रवर्जितो वाति वायुस्तूर्णमकालजः॥ ४८ पांशु-भस्मसमाकीर्णः सस्यघाती भयावहः । सविद्युत्सरजो वायुरूर्ध्वगो वायुभिः सह ॥ ४९ प्रवाति' पर्तिशब्देन क्रूरेण स भयावहः । प्रवान्ति सर्वतो वाता यदा तूर्णं मुहुर्मुहुः ॥ यतो यतोऽभिगच्छन्ति तत्र देशं निहन्ति ते । अनुलोमो यदाऽनीके सुगन्धो याति मारुतः ॥ ५१ आयातश्च ततो राजा जयमाप्नोति सर्वतः । प्रतिलोमो यदाऽनीके दुर्गन्धो वाति मारुतः ॥ तदा यत्नेन साध्यन्ते वीरकीर्तिसुलब्धयः । यदा सपरिघा सन्ध्या पूर्वो वात्यनिलो भृशम् ॥ ५३ पूर्वस्मिन्नेव दिग्भागे पश्चिमा बध्यते चमूः । यदा सपरिघा सन्ध्या पश्चिमो वाति मारुतः ॥ ५४ अपरस्मिन् दिशो भागे पूर्वा बध्येत सौ चमूः । प्रशस्तस्तु यदा वातः ||प्रतिलोमोऽनुपद्रवः॥ ५७ तदा यान्प्रार्थयेत् कामाँस्तान प्राप्नोति' नराधिपः । अप्रशस्तो यदा वायुर्नाभिपश्यत्युपद्रवम् ॥ ५८ प्रयातस्य नरेन्द्रस्य चमूर्हारयते तदा । तिथीनां करणानां च मुहूर्तानां च ज्योतिषाम् ॥ मारुतो बलवान् नेता तस्माद् यत्रैव मारुतः । वायमानेऽनिले पूर्व मेघांस्तत्र समादिशेत् ॥ ६० उत्तरे वायमाने तु जिलं तत्र समादिशेत् । ईशाने वर्षणं" ज्ञेयमाग्नेये नैर्ऋतेऽपि च ॥ याम्ये च सङ्ग्रह ब्रूयाद् भद्रबाहुवचो यथा । सुगन्धेषु प्रशान्तेषु स्निग्धेषु मार्दवेषु च । वायमानेषु वातेषु सुभिक्षं क्षेममेव च ॥ ६२ महतोऽपि समुद्भूतः सतडित् साभिगर्जितः। मेघौन्निहनते" वायुनैर्ऋतो" दक्षिणाग्निजः ॥ ६३ सर्वलक्षणसंपूर्णा मेघा मुख्या जलावहाः । मुहूर्तादुत्थितो वायुहन्यात् सर्वोऽपि नैऋतः॥ ६४ सर्वथा बलवान् वायुः स्वचक्रे निरभिग्रहः । करणादिभिः संयुक्तो विशेषेण शुभा-ऽशुभः ।। ६५ ॥ इति नि(न)पॅन्थे भद्रबाहुके नैमित्ते वातलक्षणं नाम नवमोऽध्यायः॥ * The stanzas from now upto 59 are wrongly numbered as will be seen from the context. This first half should be dropped and the second half of the stanza and the first half of the succeeding stanza should form one whole st. 1 ABD यदापि गर्जितो वाति। 1-2 B प्रतिपक्षशब्देन । | This line and the following line are not found in C. In Bit is thus found:-अपं ततः ततो धर्मामामोति सर्वतः॥ I This line is thus found in C:- तदा यनेन बध्यन्ते धरातलेषु कीर्तयः। $ It is clear from the numbering of the stanzas that two sts, are missing in A. They are also not found in C but they are found as follows in B and D and form a regular part of the text as will be seen:-यदा सपरिखा सन्ध्या दक्षिणो वाति मारुतः...eten and यदा सपरिखा सम्ध्या उत्तरो वाति मारुतः...etc. etc.॥ Thus there should be such stanzas to make the sense complete. 3-5A दक्षिणा बध्यते। || A BD अभिपश्यन्त्युपद्रवम् ॥ 6A क्षामाँ। 7A मासे भि; Cलभेत्तु । निळोमो विमटवः॥ 8Cनानयते। 9Car:। 10 AD पूर्वे: C पूर्णो।%ABDTतीयायामनिले विदुः। 11 A BD वर्ष। 12 ABD विज्ञेयं । 13 ABD चापग्रहं । 14 Cसह गर्जितान् । 15A बामेव। 16 Cविनाशयेत् । 17 Cनिक्रांतो। 18 A नैरितः: B मारुतः। 19-20 ABD सुतर्कमिरवग्रहः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002917
Book TitleBhadrabahu Samhita
Original Sutra AuthorBhadrabahuswami
AuthorA S Gopani
PublisherBharatiya Vidya Bhavan
Publication Year1949
Total Pages150
LanguageHindi, English
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy