________________
भद्रबाहुसंहिता
श्रीरघृतक्षौद्राणां दनो रुधिरोष्णवारिणां वर्षे । देशविनाशो ज्ञेयोऽसृग्वर्षे चापि नृपयुद्धम् ॥ ४३ ॥ यद्यमलेऽर्के छाया न दृश्यते दृश्यते प्रतीपा वा । देशस्य तदा सुमहद्भयमायातं विनिर्देश्यम् ॥ ४४ ॥ व्यभ्रे नभसीन्द्रधनुर्दिवा यदा दृश्यतेऽथवा रात्रौ । प्राच्यामपरस्यां वा तदा भवेत् क्षुद्भयं सुमहत् ॥ ४५ ॥ सूर्येन्दुपर्जन्यसमीरणानां योगः स्मृतो वृष्टिविकारकाले ।
धान्यान्नगोकाञ्चनदक्षिणाश्च देयास्ततः शान्तिमुपैति पापम् ॥ ४६ ॥
३९
अपसर्पणं नदीनां नगरादचिरेण शून्यतां कुरुते । शोषश्वाशोष्याणामन्येषां वा हदादीनाम् ॥ ४७ ॥ स्नेहासृख्यांसवहाः संकुलकलुषाः प्रतीगाश्चापि । परचक्रस्यागमनं नद्यः कथयन्ति षण्मासात् ॥ ४८ ॥ ज्वाला धूमक्काथा रुदितोत्कुष्टानि चैव कूपानाम् । तप्रजल्पितानि च जनमरकाय प्रदिष्टानि ॥ ४९ ॥ तोयोत्पत्तिरखाते गन्धरसविपर्यये च तोयानाम् । सलिलाशयविकृतौ वा महद्भयं तत्र शान्तिरियम् ॥ ५० ॥ सलिलविकारे कुर्यात् पूजां वरुणस्य वारुणैर्मन्त्रैः । तैरेव च जपहोमं शममेव पापमुपयाति ॥ ५१ ॥ प्रसवविकारे स्त्रीणां द्वित्रिचतुष्प्रभृतिसम्प्रसूतौ वा । हीनातिरिक्तकाले च दशकुलसंक्षयो भवति ॥ ५२ ॥ वडवोष्ट्रमहिषगोहस्तिनीषु यमलोद्भवे मरणमेषाम् । षण्मासात्सूतिफलं शान्तौ श्लोकौ च गगक्तौ ॥ ५३ ॥ नार्यः परस्य विषये त्यक्तव्यास्ता हितार्थिना । तर्पयेच्च द्विजान् कामः शान्तिं चैवात्र कारयेत् ॥ ५४ ॥ चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु । नगरं स्वामिनं यूथमन्यथा हि विनाशयेत् ॥ ५५ ॥ परयोनावभिगमनं भवति तिरश्चमसाधु धेनूनाम् ।
उक्षाणौ वान्योऽन्यं पिबति श्वा वा सुरभिपुत्रम् ॥ ५६ ॥
मासत्रयेण विद्यात् तस्मिन्निःसंशयं परागमनम् । तत्प्रतिघातायैतौ श्लोकौ गर्गेण निर्दिष्टौ ॥ ५७ ॥ त्यागो विवासनं दानं तत्तस्याशु शुभं भवेत् । तर्पयेद्ब्राह्मणांश्चात्र जपहोमांश्च कारयेत् ॥ ५८ ॥ स्थालीपाकेन धातारं पशुना च पुरोहितः । प्राजापत्येन मन्त्रेण यजेद्वह्नन्नदक्षिणाम् ॥ ५९ ॥ यानं वाहवियुक्तं यदि गच्छेन्न व्रजेश्च वाहयुतम् । राष्ट्रभयं भवति तदा चक्राणां सादभङ्गं च ॥ ६० ॥ अनभिहततूर्यनादः शब्दो वा ताडितेषु यदि न स्यात् ।
व्युत्पत्तौ वा तेषां परागमो नृपतिमरणं वा ॥ ६१ ॥
गीतरतूर्यनादा नभसि यदा व चरस्थिरान्यत्वम् । मृत्युस्तदा गदा वा विस्वरतूर्ये पराभिभवः ॥ ६२ ॥ गोलांगूलयोः स दुर्बीशूर्पाद्युपस्करविकारे । क्रोष्टुकनादे च तथा शस्त्रभयं मुनिवचश्वेदम् ॥ ६३ ॥ वायव्येष्येषु नृपतिर्वायुं सक्तुभिरर्चयेत् । आ वायोरिति पञ्चच जाप्याश्च प्रयतैर्द्विजैः ॥ ६४ ॥ ब्राह्मणान् परमानेन दक्षिणाभिश्च तर्पयेत् । बह्नन्नदक्षिणा होमाः कर्तव्याश्च प्रयत्नतः ॥ ६५ ॥
पुरपक्षिणो वनचरा वन्या वा निर्भया विशन्ति पुरस् ।
नक्तं वा दिवसचराः क्षपाचरा वा चरन्त्यहनि ॥ ६६ ॥
सन्ध्याद्रयेऽपि मण्डलमाबध्नन्तो मृगा विहङ्गा वा । दीप्तायां दिश्यथवा क्रोशन्तः संहता भयदाः ॥ ६७ ॥ श्वानः प्ररुदन्त इव द्वारे वसन्ति जम्बुका दीप्ताः । प्रविशेन्नरेन्द्रभवने कपोतकः कौशिको यदि वा ॥ ६८ ॥ कुक्कुटरुतं प्रदोषे हेमन्तादौ च कोकिलालापाः । प्रतिलोममण्डलचराः श्येनाद्याश्चाम्बरे भयदाः ॥ ६९ ॥ गृहचैत्यतोरणेषु द्वारेषु च पक्षिसंघसम्पाताः । मधुवल्मीकाम्भोरुहसमुद्भवाश्चापि नाशाय ॥ ७० ॥ भ्वभिरस्थिशवावयवप्रवेशनं मन्दिरेषु मरकाय । पशुशस्त्रव्याहारे नृपमृत्युर्मुनिवचश्चेदम् ॥ ७१ ॥ मृगपक्षिविकारेषु कुर्याद्धोमान् सदक्षिणान् । देवाः कपोत इति च जप्तव्याः पञ्चभिर्द्विजैः ॥ ७२ ॥ सुदेवा इति चैकेन देया गावश्च दक्षिणा । जपेच्छाकुनसूक्तं वा मनोवेदशिरांसि च ॥ ७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org