________________
भद्रबाहुसंहिता
॥ ॐ नमः सर्वज्ञाय ॥ मगधेषु पुरं ख्यातं नाम्ना राजगृहं शुभम् । नानाजनपदाकीर्णं नानागुणविभूषितम् ॥ तत्राऽस्ति सेनजिद्राजा युक्तो राजगुणैः शुभैः। तस्मिन् शैलो भुवि ख्यातो नाम्ना पाण्डुगिरिः शुभः ॥२ नानावृक्षसमाकीणों नानाविहगसेवितः । चतुष्पदैः सरोभिश्च साधुभिश्चोपसेवित: ॥ ३ तत्राऽऽसीनं महात्मानं" ज्ञान-विज्ञानसागरम् । तपोयुक्तं च श्रेयांसं भद्रबाहुं निरामयम्"॥ ४ द्वादशाङ्गस्य वेत्तारं निर्ग्रन्थं च" महाद्युतिम् । वृत शिष्यैः प्रशिध्यैश्च निपुणं तत्त्ववेदिनम् ॥ ५ प्रणम्य शिरसाऽऽचार्यमूचुः शिष्या वचस्पतिम् । सर्वेषु प्रीतिमनसो दिव्यं ज्ञानं बुभुत्सवः॥ ६ पार्थिवानां हितार्थाय भिक्षणां हितकाम्यया । श्रावकाणां हितार्थाय दिव्यं ज्ञानं ब्रवीहि नः ॥ ७ शुभा-अशुभं समुद्भूतं श्रुत्वा राजा निमित्ततः । विजिगीषुः स्थिरमतिः सुखं पाति महीं सदा ॥ ८ राजभिः पूजिताः सर्वे भिक्षवो धर्मचारिणः । विहरन्ति निरुद्विग्नास्तेन राजाभियोजितीः ॥ ९ पापमुत्पातिकं दृष्ट्वा ययुर्देशांश्च भिक्षवः । स्फीताने जनपदांश्चैव संश्रयेयुरनोदिताः ॥ १० श्रावकाः स्थिरसंकल्पा दिव्यज्ञानेन हेतुना । नाश्रयेयुः परं तीर्थ या सर्वज्ञभाषितम् ॥ सर्वेषामेव जन्तूनां दिव्यं ज्ञानं सुखावहम् । भिक्षुकाणां विशेषेण परपिण्डोपजीविनाम् ॥ विस्तीर्ण द्वादशाङ्गं तु भिक्षवश्वाल्पमेधसः । भवितारो हि बहवस्तेषां चैवेदमुच्यताम् ॥ मुखमा" लघुग्रन्थं स्पष्टं शिष्यहितावहम् । सर्वज्ञभाषितं तथ्यं निमित्तं तु प्रवीहि नः ।।
उल्का समासतो" व्यासात परिवेषांस्तथैव च । विद्युतो"ऽभ्राणि" सन्ध्याश्च मेघान्” वातान्' प्रवर्षणम् ॥ गन्धर्वनगरं १९" गर्भान्" यात्रोत्पातं (१३ तथैव च।
प्रहचार" पृथक्त्वेनं ग्रहयुद्धं च कृत्लतः॥ बातिकं चाथ स्वप्नांश्च मुहूर्ताश्च तिथीस्तथा । करणानि निमित्तं च शकुन पाकमेव च ॥
1 B सिद्धेभ्या; D श्रीजिनाय नमः। 2 B C मागधेषु। 3 B पुर । 4 A C D पुरै । BAD°समाकीर्ण। CAD शैलेषु, B सैलेसु। 7 B शुभं। 8 A D वृक्षः। 9 A B चतुःपदैः। 10Cशोभितः। 11 B महात्माणं; C महाज्ञानं । 12-13-14 C तपोयुक्तक्रियाशस्या। 15 BCनिरा. श्रयम्। 16 BD निग्रंथं; Cनिर्ग्रन्थ । 17 A सु; BC स । 18 A वृत; B वृत्ति; C वृत्तं । 19 B शध्यै। 20 B प्रसिण्यैः C भूयिष्ठैः। 21 A°वादिनम् । 22 AC D नमस्य । 23 B सिरसा। 24 A-न: C वेन। 25A पति; B तदा गिरा। 26 A सविषु; B सर्वेऽपि; Cसर्वेषु। 27 Dप्रीत। 28 A B दिव्य। 29 A युभुत्सुव। 30 B °मति। 31A मही। 32 A°भिजूतितः, B राज्ञाभिपूरिताः । 33 A जयुद्धाश्वभि'; B ययुद्वेषस्वभि'; C यतु। 34 A. स्पीतान् ; B स्फीतानां । 35A संश्रये पुरवोचिताः; Cसंश्रये गुरुवोदिताः। 36 A माश्रयेयु; C संश्रययः। 37C सदा। 38 BC सरवानां। 39 A दिव्यज्ञान । 40A भिक्षवः स्वल्प। 41 B°ग्राा। 42 Bसर्वशि०॥
D उल्काः । 44 A गन्धर्वनगरे। 45 A यात्रामुत्पातकां; C यत्रोत्पातं । 46 A तथा। 47 A पृथकेन । 48 Aकृत्सतराः; Cकृत्सः। 49 A स्वमश्च । 50A निमित्तानि । 51Aशाकुनं पाकनेवा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org