Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 73
________________ भद्रबाहुसंहिता [५,१३-२५, ६,१-९ शारदी(यो) नाभिवर्षन्ति नीला वर्षाश्च विद्युतः। हेमन्ते श्यामताम्रास्तु तडितो निर्जलाः स्मृताः॥१३ रक्तारक्तेषु चाभ्रेषु हरिताहरितेषु च । नीलानीलेषु वा स्निग्धा वर्षन्तेऽनिष्टयोनिषु॥ अथ नीलाचं पीताच रक्ताः श्वेताश्च विद्युतः । एतां श्वेती पतत्यूवं विद्युदुर्दैकसंप्लवम् ॥ १५ वैश्वानरपथे विद्युत् श्वेता रूक्षा चरेद् यतः । विन्द्यात् तदाऽशनिवर्ष" रक्तायामनितो भयम् ।। १६ यदा श्वेताऽभ्रवृक्षस्य विद्युच्छिरसि संचरेत् । अथ वा ग्रहयोर्मध्ये वातवर्ष सृजेन्महत् ॥ १७ अथ चन्द्राद् विनिष्क्रम्य विद्युन्मण्डलसंस्थिता । श्वेताऽऽभी प्रविशेदकं विन्द्यादुदकसंप्लवम् ॥ १८ अर्थ सूर्याद् विनिष्क्रम्य रक्ता समलिनों भवेत् । प्रविश्य सोमं वा तस्य तत्रै घृष्टिर्भयङ्करा ॥ १९ विद्युतं तु याँ विद्युत् ताडयेत् प्रविशेदर्थे । अन्योऽन्यं चालिखेयातां वर्ष विन्द्यात् तदाऽशुभम् ॥ २० राहुणा संवृतं चन्द्रमादित्यं चापि सर्वतः । कुर्याद् विद्युद् यदी साधी तदा सस्यं न रोहति ॥ २१ नीला ताम्रा च गौरी च श्वेता वाऽभ्रान्तर चरेत् । सघोषा मन्दघोष वा विन्द्यादुदकसंप्लवम् ।। २२ मध्यमे मध्यम वर्ष अँधमे अधम दिशेत् । उत्तमं चोत्तमे मार्गे चरन्तीनां च विद्युताम् ॥ २३ वीथ्यन्तरेषु या विद्युञ्चरतामफैलं विदुः । अभीक्ष्णं दर्शयेञ्चापि तत्र दूरगतं फलम् ॥ २४ उल्कावत् साधनं ज्ञेयं विद्युतामपि तत्त्वतः । अत्राभ्राणां प्रवक्ष्यामि लक्षणं" तन्निबोधत ॥ २५ ॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते विद्युल्लक्षणं नाम पञ्चमोऽध्यायः॥ अभ्राणां लक्षणं कृत्स्नं प्रवक्ष्यामि यथाक्रमम् । प्रशस्तमप्रशस्तं च तन्निबोधत तत्त्वतः॥ १ स्निग्धाण्यभ्राणि यावन्ति वर्षदानि न संशयः । उत्तर मार्गमाश्रित्य तिथौ मुखे" यदा भवेत् ॥ २ उदीच्यान्यथ पूर्वाणि वर्षदानि शिवानि च । दक्षिणाण्य(न्य)पराणि स्युः समूत्राणि न संशयः।। ३ कृष्णानि पीत-ताम्राणि श्वेतानि" यदा भवेत् । श्वयोनिदिशैमासृत्य वर्षदानि शिवानि च ॥ ४ अम्बराणां च सत्त्वानां सहशानि चराणि च । सुस्निग्धानि च यानि स्युर्वर्षदानि शुभानि च ॥ ५ शुक्लानि" स्निग्धवर्णानि विद्युच्चित्रै-धनानि च । सद्यो वर्ष समाख्यान्ति तान्यभ्राणि न संशयः ॥ ६ शकुनैः कारणैश्चापि संभवन्ति शुभैर्यदा । तदा वर्ष च क्षेमं च सुभिक्षं च जयं भवेत् ॥ ७ पक्षिणां द्विपदानां च सदृशानि यदा भवेत् । चतुःपदानां सौम्यानां तदा विन्द्यान्महज्जलम् ॥ ८ यदा राज्ञः प्रयाणे* तु यान्त्यभ्राणि शुभानि च । अनुमार्गाणि" स्निग्धानि तदा राज्ञो जयं वदेत् ॥ ९ 1B चान्येषु। 2 Cहिम्व। 3 A not found. 4 A not found. 5A श्वेता is doubly found here. 6-7 C तान्यतमत् । 8Cविद्यात्। 9-10 B च विधुता। 11-12B सनिर्घोष; C सनीवर्षे D सनिव। 13 A मे; B प्रथमे। 14 C श्वेता च; D स्वतनो। 15 C तदा। 16 Cसा शलिखा। 17 Cनश्येत । 18 C सा तु। 19 Cवृष्टि। 20A BD विद्युत् । 21-22 AB Dविद्युत्। 23 A BD यदाभूस्वा। 24 A BD तदा। 25 BCD शुभम् । 26 A सव्यते; B सेग्यतः। 27 A B विधुदा; C विद्युता। 28 B साचा; C साऽभ्रं। 29 C अघोषा। 30 C वाऽप्यघोषा। * A BD दक्षिणाकल्पसंभवे । 31C दीर्घातरेषु। 32 A B चर; D चारता । 33 A वामफलं; B स्वामफलं; C सफलं। 34 B दूरा। 35 C अभ्रणां। 36 C संप्रवक्ष्यामि । 37 C लक्षणानि । 38 C निबोधत। 39 C तत्सं। 40 A BD प्रशस्तान्। 41A BD अप्रशस्तान् । 42 A BD तान् । 43 Aमुख्यो; C मुख्ये। 44 Cशुभानि । 45 C समुहर्तानि । 46 C सर्वशः। 47 A स्वेतानि । 48 A not found. 49 AD तयोनिर्देश Bतयोदेशस। 50A सिवानि । 51 ABD अप्सराणां । 52 A सत्तानां; BD सप्तानाम् । 53 B सहशा 1 54 A B चरणानि: C अपराणि। 55 B शिवानि। 56 A सुकानि । 57 ABD बिंदु। 58 D द्विनि। 59 A BD करणैः। 60A वदेस् । 61C पदां च । 62 A BD जयं वदेत् । 63 A. राज। 64 A प्रयाणैः; C संप्रयाणे। 65-66 A BD शुभान्यथा । 67 Cमभ्र। 68C भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150