Book Title: Bhadrabahu Samhita
Author(s): Bhadrabahuswami, A S Gopani
Publisher: Bharatiya Vidya Bhavan

View full book text
Previous | Next

Page 74
________________ ६, १०-३१] षष्ठ अध्याय स्वायुधानोमश्वानां हस्तिनां सदृशानि च । यान्यग्रतो प्रधावन्ति जयमाख्यान्त्युपस्थितम् ॥ १० *ध्वजानां च पताकानां घण्टानां तोरणस्य च । सदृशान्यग्रतो यान्ति जयमाख्यान्त्युपस्थितम् ॥ ११ शुक्लानि स्निग्धवर्णानि पुरस्तात् पृष्ठतोऽपि वा। अभ्राणि दीप्तरूपाणि जयमाख्यान्त्युपस्थितम् ।। १२ चतुःपदानां पक्षीणां' क्रव्यादानां च दंष्ट्रिणाम् । सदृशप्रतिलोमानि विधमाख्यान्त्युपस्थितम् ॥ १३ असि-शक्ति-तोमराणां खड्गानां चक्र-चर्मणां । सदृशप्रतिलोमानि सङ्ग्रामं तेषु निर्दिशेत् ॥ १४ धनुषां कवचानां च बालानां सदृशानि च । खण्डान्यभ्राणि रूक्षाणि सद्यामं तेषु निर्दिशेत् ॥ १५ नानारूपप्रहरणैः सर्वे यान्ति परस्परम् । सभामं तेषु जानीयादतुलं प्रत्युपस्थितम् ॥ अभ्र-वृक्षं समुच्छाद्य योऽनुलोमसमं व्रजेत् । यस्य राज्ञो वधस्तस्य भद्रबाहुवचो यथा ॥ १७ बालाऽभ्र-वृक्षमरणं कुमारामात्ययोर्वदेत् । एवमेवं च विज्ञेयं प्रतिराज्ञां" यदा भवेत् ॥ तिर्यक्षु यानि गच्छन्ति रूक्षाणि च धनानि च । निवर्त्तयन्ति तान्याशु च सर्वां' सनायकम् ॥ १९ अभिद्रवन्ति घोषेण महता यां चमूं पुनः । सविद्युतानि वाऽभ्राणि तदा विन्द्याञ्चमूवधम् ॥ २० रुधिरो-दक-वर्णानि निम्बैंगन्धीनि यानि च । ब्रजन्यभ्राणि अत्यन्त सङ्ग्रामं तेषु निर्दिशेत् ॥ २१ विस्वरं" रवमाणाश्च शकुना यान्ति पृष्ठतः । यदी चाभ्राणि धूम्राणि तदा विन्द्यान्महद् भयम् ॥ २२ मलिनानि विवर्णानि दीप्तायां दिशि यानि च । दीप्तान्येव यदा यान्ति भयमाख्यान्त्युपस्थितम् ॥ २३ साहे* वाऽपि नक्षत्रे ग्रहयुद्धे शुभे तिथौ । सम्भ्रमन्ति" यदाऽभ्राणि तदा विन्द्यान्महद्भयम् ॥२४ मुहूर्ते शकुने वाऽपि निमित्ते वा शुभे यदा । सम्भ्रमन्ति यदाऽभ्राणि तदा विन्द्यान्महद्भयम् ।। २५ अभ्रशक्तिर्यतो गच्छेत् तां दिशं त्वभियोजयेत् । विपुला क्षिप्रा स्निग्धा जयमाख्याति निर्भयम् ॥ २६ यदा तु धान्यसङ्घानां सदृशानि भवन्ति हि । अभ्राणि तोयवर्णानि सस्यं तेषु समृद्ध्यति ॥ २७ विरागान्यनुलोमानि शुक्ल-रक्तानि यानि च । स्थावराणीति जानीयात् स्थावराणां च संश्रये ॥ २८ क्षिप्रगानि विलोमानि नील-पीतानि यानि च । चलानीति विजानीयाँच्चलानां च समागमे ॥२९ स्थावराणां जयं विन्द्यात्स्थावराणां द्युतिर्यदा । यायिनां च जयं विन्द्याच्चलीभ्राणां द्युतावपि ॥ ३० राहा तत्प्रतिरूपैस्तु ज्ञेयान्यभ्राणि सर्वशः । तत् सर्व सफलं विन्द्याच्छुभं वा यदि वाऽशुभम् ॥ ३१ ॥इति नि(नै)ग्रंन्थे भद्रबाहुके निमित्ते अभ्रलक्षणो नाम षष्ठोऽध्यायः॥ 1BD स्थायुधानां; Cयदाऽऽयुधानाम् । 2 A सस्थानाम्; B D सत्त्वानाम्। 3 C अभिधावन्ति । * C This stanza is not found in this Ms. 4 B पुरतः। 5 B अभ्राणां। 6 A °पदानां च । 7C पक्षाणां। 8 C पक्षिणां| D संग्राम तेषु निर्दिशेत् । + This stanza is missing both in Cand D. 9-10 Cघनयानानां। 11C ते। 12 C विनिर्दिशेत् । 13 A अत्र वृक्ष; B अभ्र वृक्ष D स्वभवृक्षः। 14 B योन्यां। 15C°लोम। 16A भव्यक्ष; B°भिमरणं वृक्षे; D°भ्राणिक्ष । 17 B प्रतिन्यानां; C प्रतिराज्ञ'; D प्रतिराज्ञा। 18 Cतिर्यचि। 19 A D रूपाणि; C वृक्षाणि । 20A श्वेत्वन् Dचमुः। 21 A सर्वान् ; B सर्वा; D सर्व। 22 Cच नायकां; D सिनायकां। 23 Cघोरेण । 24 C विषं। 25 A BD वजन्त्यभ्रामतोऽ। 26 A B D not found. 27 AC विश्वरं। 28-29 A B D यान्यभ्राणि। 30A BD सधूमानि। 31-32 A महाभयम् ; BD भयं महत् । 33 A त्रिवर्णानि । 34 A समाहे; B संग्रहे। 35 C अभ्रमुक्ते। 36 A सम । 37 C भवति । CThis stanza is not found. 38 C दक्षिणा। 39 A वात्यसन्धानां । 40A सदृशानां । 41 A विरगानि । 8 This line as well as the next stanza are not found in B.42 A स्थावराणां। 43A विजानीयात् । 44C D संश्रयेत् । 45 A वलानीति; D चञ्चलानीति। 46 D जानीयात् । 47 A चूलानाम् । 48 A समागमम। 49 A चला। 50Cजायिनां। 51C तज्ञां। 52Cतिप्रति । 53Cसर्वतः। 54C ततः। 55-56Cसर्वमलं। 57 BC बूयात् । भ० सं० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150