________________
६, १०-३१]
षष्ठ अध्याय स्वायुधानोमश्वानां हस्तिनां सदृशानि च । यान्यग्रतो प्रधावन्ति जयमाख्यान्त्युपस्थितम् ॥ १० *ध्वजानां च पताकानां घण्टानां तोरणस्य च । सदृशान्यग्रतो यान्ति जयमाख्यान्त्युपस्थितम् ॥ ११ शुक्लानि स्निग्धवर्णानि पुरस्तात् पृष्ठतोऽपि वा। अभ्राणि दीप्तरूपाणि जयमाख्यान्त्युपस्थितम् ।। १२ चतुःपदानां पक्षीणां' क्रव्यादानां च दंष्ट्रिणाम् । सदृशप्रतिलोमानि विधमाख्यान्त्युपस्थितम् ॥ १३
असि-शक्ति-तोमराणां खड्गानां चक्र-चर्मणां । सदृशप्रतिलोमानि सङ्ग्रामं तेषु निर्दिशेत् ॥ १४ धनुषां कवचानां च बालानां सदृशानि च । खण्डान्यभ्राणि रूक्षाणि सद्यामं तेषु निर्दिशेत् ॥ १५ नानारूपप्रहरणैः सर्वे यान्ति परस्परम् । सभामं तेषु जानीयादतुलं प्रत्युपस्थितम् ॥ अभ्र-वृक्षं समुच्छाद्य योऽनुलोमसमं व्रजेत् । यस्य राज्ञो वधस्तस्य भद्रबाहुवचो यथा ॥ १७ बालाऽभ्र-वृक्षमरणं कुमारामात्ययोर्वदेत् । एवमेवं च विज्ञेयं प्रतिराज्ञां" यदा भवेत् ॥ तिर्यक्षु यानि गच्छन्ति रूक्षाणि च धनानि च । निवर्त्तयन्ति तान्याशु च सर्वां' सनायकम् ॥ १९ अभिद्रवन्ति घोषेण महता यां चमूं पुनः । सविद्युतानि वाऽभ्राणि तदा विन्द्याञ्चमूवधम् ॥ २० रुधिरो-दक-वर्णानि निम्बैंगन्धीनि यानि च । ब्रजन्यभ्राणि अत्यन्त सङ्ग्रामं तेषु निर्दिशेत् ॥ २१ विस्वरं" रवमाणाश्च शकुना यान्ति पृष्ठतः । यदी चाभ्राणि धूम्राणि तदा विन्द्यान्महद् भयम् ॥ २२ मलिनानि विवर्णानि दीप्तायां दिशि यानि च । दीप्तान्येव यदा यान्ति भयमाख्यान्त्युपस्थितम् ॥ २३ साहे* वाऽपि नक्षत्रे ग्रहयुद्धे शुभे तिथौ । सम्भ्रमन्ति" यदाऽभ्राणि तदा विन्द्यान्महद्भयम् ॥२४ मुहूर्ते शकुने वाऽपि निमित्ते वा शुभे यदा । सम्भ्रमन्ति यदाऽभ्राणि तदा विन्द्यान्महद्भयम् ।। २५ अभ्रशक्तिर्यतो गच्छेत् तां दिशं त्वभियोजयेत् । विपुला क्षिप्रा स्निग्धा जयमाख्याति निर्भयम् ॥ २६ यदा तु धान्यसङ्घानां सदृशानि भवन्ति हि । अभ्राणि तोयवर्णानि सस्यं तेषु समृद्ध्यति ॥ २७ विरागान्यनुलोमानि शुक्ल-रक्तानि यानि च । स्थावराणीति जानीयात् स्थावराणां च संश्रये ॥ २८ क्षिप्रगानि विलोमानि नील-पीतानि यानि च । चलानीति विजानीयाँच्चलानां च समागमे ॥२९ स्थावराणां जयं विन्द्यात्स्थावराणां द्युतिर्यदा । यायिनां च जयं विन्द्याच्चलीभ्राणां द्युतावपि ॥ ३० राहा तत्प्रतिरूपैस्तु ज्ञेयान्यभ्राणि सर्वशः । तत् सर्व सफलं विन्द्याच्छुभं वा यदि वाऽशुभम् ॥ ३१
॥इति नि(नै)ग्रंन्थे भद्रबाहुके निमित्ते अभ्रलक्षणो नाम षष्ठोऽध्यायः॥
1BD स्थायुधानां; Cयदाऽऽयुधानाम् । 2 A सस्थानाम्; B D सत्त्वानाम्। 3 C अभिधावन्ति । * C This stanza is not found in this Ms. 4 B पुरतः। 5 B अभ्राणां। 6 A °पदानां च । 7C पक्षाणां। 8 C पक्षिणां| D संग्राम तेषु निर्दिशेत् । + This stanza is missing both in Cand D. 9-10 Cघनयानानां। 11C ते। 12 C विनिर्दिशेत् । 13 A अत्र वृक्ष; B अभ्र वृक्ष D स्वभवृक्षः। 14 B योन्यां। 15C°लोम। 16A भव्यक्ष; B°भिमरणं वृक्षे; D°भ्राणिक्ष । 17 B प्रतिन्यानां; C प्रतिराज्ञ'; D प्रतिराज्ञा। 18 Cतिर्यचि। 19 A D रूपाणि; C वृक्षाणि । 20A श्वेत्वन् Dचमुः। 21 A सर्वान् ; B सर्वा; D सर्व। 22 Cच नायकां; D सिनायकां। 23 Cघोरेण । 24 C विषं। 25 A BD वजन्त्यभ्रामतोऽ। 26 A B D not found. 27 AC विश्वरं। 28-29 A B D यान्यभ्राणि। 30A BD सधूमानि। 31-32 A महाभयम् ; BD भयं महत् । 33 A त्रिवर्णानि । 34 A समाहे; B संग्रहे। 35 C अभ्रमुक्ते। 36 A सम । 37 C भवति । CThis stanza is not found. 38 C दक्षिणा। 39 A वात्यसन्धानां । 40A सदृशानां । 41 A विरगानि । 8 This line as well as the next stanza are not found in B.42 A स्थावराणां। 43A विजानीयात् । 44C D संश्रयेत् । 45 A वलानीति; D चञ्चलानीति। 46 D जानीयात् । 47 A चूलानाम् । 48 A समागमम। 49 A चला। 50Cजायिनां। 51C तज्ञां। 52Cतिप्रति । 53Cसर्वतः। 54C ततः। 55-56Cसर्वमलं। 57 BC बूयात् ।
भ० सं० २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org