________________
भद्रबाहुसंहिता
[७,१-२६ अथातः संप्रवक्ष्यामि सन्ध्यानां लक्षणं ततः । प्रशस्तमप्रशस्तं च यथातत्त्वं निबोधत ॥ १ उद्गच्छमाने वाऽऽदित्ये यदा सन्ध्या विराजते । नागराणां जयं विन्द्यादस्तं गच्छति यायिनाम ॥ २ उद्गच्छमाने वाऽऽदिये शुक्ला सन्ध्या यदा भवेत् । उत्तरेण गतो' सौम्या ब्राह्मणानां जयं विदुः ॥ ३ उद्गच्छमाने वाऽऽदित्ये रक्ता सन्ध्या यदा भवेत् । पूर्वेण च गता सौम्या क्षत्रियाणां जयावहा ॥ ४ उद्गच्छमाने वाऽऽदिये पीता सन्ध्या यदा भवेत् । दक्षिणेन गता सौम्या वैश्यानां सौ जयावहाँ ।। ५ उद्गच्छमाने वाऽऽदित्ये कृष्णसन्ध्या यदा भवेत् । अपरेण गता सौम्या शूद्राणां च जयावहाँ ॥ ६ सन्ध्योत्तरा जयं कुर्यात् दक्षिणा च पराजयम् । पूर्वा क्षेमं सुभिक्षं च पश्चिमा तु भयङ्करा ॥ ७ आग्नेयी अग्निमाख्याति नैर्ऋती राष्ट्रनाशिनी । वायव्या वर्षणं" हन्यात् ईशानी च शुभावहा ॥ ८ एवं संपत्करायेषु नक्षत्रेष्वपि निर्दिशेत् । जयं सा कुरुते सन्ध्या साधकेषु समुत्थिता ॥ ९ उदयास्तमनेऽर्कस्य यान्यभ्राण्यग्रतो भवेत् । सप्रभाणि सरश्मीनि तानि सन्ध्या विनिर्दिशेत् ।। १० अभ्राणां यानि रूपाणि सौम्यानि विकृतानि च । सर्वाणि तानि सन्ध्यायां तथैव प्रतिचारयेत् ॥ ११ एवमस्तमने काले यो सन्ध्या सर्व उच्यते । लक्षणं यत् तु सन्ध्यानां *शुभं च यदि वाऽशुभम् ॥ १२ स्निग्धवर्णमती सन्ध्या वर्षदा सर्वशो भवेत् । सर्वावीथिगता वाऽपि सुनक्षत्रों विशेषतः ॥ १३ सर्वरात्रपरिवेर्षी सविद्युत्प॑रिखायुता । सरश्मी" सर्वशः सन्ध्या सद्यो वर्ष प्रयच्छति ॥ १४ प्रतिसूर्यागमस्ताच्च शक्रापरजस्तथा । सन्ध्यायां यदि दृश्यन्ते सद्यो वर्ष प्रयच्छति ॥ १५ सन्ध्यायामेकरश्मि तु यदा सृजति भास्करः । उदितेऽस्तमिते चापि विन्द्याद वर्षमुपस्थितम् ॥ १६ आदित्यपरिवेषस्तु सन्ध्यायां यदि दृश्यते । वर्ष महद् विजानीयाद् भयं वाऽथ प्रवर्षणे ॥ १७ त्रिमण्डलपरिक्षिप्तो अथवा पञ्चमण्डलः । सन्ध्यायां दृश्यते सूर्यों महावर्षस्य संभवः ॥ १८ द्योतयन्ती दिशः सर्वा यदा सन्ध्या प्रदृश्यते । महामेधं तदा विन्द्याद् भद्रबाहुवचो यथा ॥ १९ सर-स्तडाग-प्रतिमा-कूप-कुम्भनिभा च या । यदा दृश्यति सुस्निग्धा सा सन्ध्या वर्षदा स्मृता । २० धूमवर्णा बहुच्छिद्रा खण्डपापसमा यदा । या सन्ध्या दृश्यते नियं सा तु राज्ञो भयङ्करा ॥ २१ अनावृष्टिभयं रोगं दुर्भिक्षं राजविद्रवम् । रूक्षायां विकृतायां च सन्ध्यायां च विनिर्दिशेत् ।। २२ द्विपदाश्चतुःपदाः क्रूराः पक्षिणस्तु भयङ्कराः । सन्ध्यायां यदि दृश्यन्ते भयमाख्यान्युपस्थितम् ॥ २३ विंशतिर्योजनानि स्युर्विद्युद्भाति च सुप्रभा । ततोऽधिकं तु स्वनित अभ्रं यत्रैव दृश्यते ॥ २४ पञ्चयोजनिका सन्ध्या वायुवर्षं च दूरतः। त्रिरात्रा(त्र) सप्तरात्रा(त्र) च सद्यो वा पाकमादिशेत् ॥ २५ उल्कावत् साधनं सर्व सन्ध्यायामभिनिर्दिशेत् । अतः परं प्रवक्ष्यामि मेघानां तन्निबोधत ॥ २६
॥ इति नैर्ग्रन्थे भद्रबाहुके निमित्ते सन्ध्यालक्षणं नाम सप्तमोऽध्यायः॥
30
1Cविह । 2 Cजायिनाम् । 3 A गतो। 4 C च। 5 B यथावहा; C जयकरा। 6 B यथावहा; Cजयङ्करा। 7A B राज्ञः। 8-9 B सन्ध्या कुर्यात् । 10 A अग्नेइ । 11C वर्ष। 12 C हन्यात् । 13 Cतु वायव्या। 14 C संयुक्तरागेषु। 15 Cविनतानि। 16 C सा सन्ध्या । 17-18 C यायिनां । 19-21C उदये चापि । * C स्थावराणां शुभाशुभम् ॥ 22 C सर्व। 23 C नक्षत्राणि। 24 C साकारा । 25 C सपरिवेषा। 26 A सविधुता। 27 C सुरश्मिः । 28-29 C सर्वसन्ध्यायां। 30A सध्रुवं । 31-32 A चावर्षणे पुनः। 33 A वृक्षस्य । 34 A मेघा; BD मेघः। 35 C शिवा। 36 C घोरं । 37 AC विद्वरम् ; B °विस्तरम्। 38 A विद्यात् । 39 B स्तनितं; Cच ततं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org