Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 13
________________ जातिसाङ्कर्यम् । जातिसाङ्कर्यं चाऽवश्यं दूषणं, तल्लक्षणं तु-परस्पराऽत्यन्ताभावसामानाधिकरण्ये सति परस्परसामानाधिकरण्यं, अत एव नमस्कारत्वमपि न जातिः । अत्र वदन्ति - जातिसाङ्कर्यं न दूषणम् । न हि जात्याः साङ्कर्य जातिसाङ्कर्यम् । एतस्य दूषणस्य सिद्धत्वे दूषणत्वासिद्धेः, असिद्धत्वे च स्वरूपालाभादेव। ननु जातिसाङ्कर्ये आपादकीभूय दूषणं यदि जातिसाङ्कर्यं स्यात् घटत्वपटत्वयोरप्येकत्र सामानाधिकरण्यं स्यादित्यादिरूपेणेति चेत् , न, आप(पा)दकाप्रसिद्धरेव। नाऽपि जातिसाङ्कर्यस्य दूषणत्वमित्येतस्याऽयमाशयः - यदि भूतत्वमूर्तत्वयोर्जातित्वं स्यात् घटत्वपटत्वयोरपि सामानाधिकरण्यं स्यादिति वैयधिकरण्यादिति । किन्तु परस्परात्यन्ताभावसमानाधिकरणयोर्धर्मयोः परस्परसामानाधिकरण्याज्जातित्वं नेष्यत इत्येतावन्मानं , तत्र च बीजं न पश्यामः । ननु जातित्वं यदि तादृशधर्मवृत्तिः स्यात् उभयवादिसम्मततादृशधर्मवृत्तिः स्यादित्यापादनार्थं इति चेत् , न, अप्रयोजकत्वात्। तस्मान्न सङ्करस्य दूषणत्वमिति के चित् । तन्न, घटत्वपटत्वयोविरोधदर्शनेन विरोधितावच्छेदकस्य परस्परात्यन्ताभावसमानाधिकरणजातित्वरूपस्य सम्भवे त्यागायोगात् , अव्याप्यवृत्तिजात्यनङ्गीकाराच्च । तस्मात् प्रतिबन्धकान्यस्य सतः प्रारिप्सितप्रतिबन्धकनिवृत्त्यसाधारणकारणत्वमेव मङ्गलत्वम् । अत्र दाहप्रतिबन्धकमणिनिवृत्त्यसाधारणकारणे मणौ तत्कालीनविघ्नध्वंसकारणे विघ्ने च प्रारिप्सितप्रतिबन्धकान्यस्य सत इत्यभयपदोपादानान्नातिव्याप्तिः। वस्तुतो विघ्नध्वंसप्रतिबन्धकदुरदृष्टाभावेऽतिव्याप्तिवारणाय सत इति, प्रतिबन्धकविघ्ने एवाऽतिव्याप्तिनिरासाय प्रतिबन्धकान्यस्येति । सत्त्वं चाऽत्र भावत्वम् । प्रथमपक्षे च तदन्यत्वे सतीत्यर्थो बोध्यः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126