Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
21
ह्रस्वान्ता स्यादलाबुश्च दीर्घादिश्च प्रतीयते । उर्णनाभ इदन्तश्च किकीदिविः किकीदिवे ||९३ ||
करेटो (टौ ?) करटुश्चापि दूत्यां दूतिरपि स्मृता । स्यान्निचोले निचुलकं स्यादसिक्तामसिक्तिका ॥ ९४ ॥ जीव (वं) जीवे जीवजीव- श्चालन्यामपि चालनम् । स्यूते स्यूनं तथा स्योन - मभ्युषेऽभ्योष इत्यपि ॥९५॥ करम्बो मिश्रिते बातो (?) भांतस्तु दधिसक्तुषु । आमीक्षा ह्रस्वमध्याऽपि मध्यौकारं च यौतकम् ॥९६॥ धुवित्रं निरुकारं च स्याद् ऋषौ रिषि इत्यपि । इरिणं स्याच्च दीर्घादिः कृषके कृषिकोऽपि च ॥९७॥ तालव्यदन्त्ययोरुक्ते सर्वला सर्वलीति च । तालव्यद्वयमध्योऽसा-वाशुशुक्षणिरीक्ष ( क्ष्य) ते ॥९८॥
विष्णौ दाशार्ह इत्यस्य मध्यतालव्यता मता । तालव्यान्तश्च कोटीशः प्रासस्तालव्य - दन्त्ययोः ॥९९॥
दन्त्योपान्तं तु कूर्पास - महानसमलीमसम् । कांजिकादौ तु कुल्माषो दन्त्योपान्त्योऽपि कीर्त्यते ॥१००॥
आदिदन्त्यं तु सुषवी सम्बाकृतसमूरुचः । कुसीदं च कुसूलं च मध्यदन्त्यमुदीरितम् ॥१०१॥
पारावार: प्रमध्योऽपि सोपानं दतु समादितु ( दन्त्यमादि ? ) । विश्वस्ता स्याद् वमध्यैव न विशस्तेत्युदाहृता ॥ १०२ ॥
स्यात् कवर्गद्वितीयादि ख्वंतादिरपि क्षुल्लकः । स्यात् पवर्गद्वितीयादि फणायां तु फटाऽपि च ॥१०३॥
त्रयोदशस्वराद्यस्तु शोभाञ्जन उदाहृतः । तनूनपात् तकारान्तो न तत्रर्गतृतीयभाक् ॥ १०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126