Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 28
________________ लङ्गलमपि लाङ्गलं भंभरा भंभराल्यपि । त्वचि त्वच: किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥११७॥ अजगावाजकावेव भवेदाजगवं तथा । पिनाकेऽजगवं चाथ सैंहिकेये तमस्तथा ॥११८॥ चुलुकी चुलुपी च स्या-दुलूपी शिशुमारके । अगाधेऽस्थागमस्थाघ-मस्तघं च प्रयुज्यते ॥११९।। स्यान्मध्योभचतुर्थत्व(?)-महसो रहसस्तथा । चिह्न ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥१२०।। द्रविड: स्यान्ममध्योऽपि काफलं चापि कत्फले । व्रीडायां च भवेद् व्रीडो लज्जामात्रेऽप्यपत्रपा ॥१२१।। उडुकं मध्यहस्वं च हूस्वादिः स्यादलिन्दकः । तथा कुरबके रेफो निरुकारः प्रयुज्यते ॥१२२॥ मंजिष्ठायां तु भण्डीरी मध्यह्रस्वाऽपि पठ्यते । दीर्घादि वृश्चिके च स्या-दली स्यादालिरित्यपि ॥१२३॥ वु(वृ)क्को वृक्का स्मृतौ वृल्कि ग्रैवं ग्रैवेयकेऽपि च । ख) खोश्च खोस्श्च स्यात्तरा तरिरित्यपि ॥१२४॥ नासिकायां च नस् वापि मथि मन्थाक इत्यपि । कार्तस्वरं मध्यदन्त्यं सेहुड: स्यात् सिहुण्डवत् ।।१२५।। उष्ट्रोऽदन्त्यो लुलायोऽपि मारुतेऽपि हलं तथा । विद्यात् पुरुरवःशब्दे रुकारस्यापि दीर्घता ॥१२६॥ स्यात् कुरण्डोऽपि दीर्घादिः सुरज्येष्ठोऽपि सम्मतः । नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥१२७|| काण्डे शर: शुभं क्षेमे शार: शबलवातयोः । किशुकश्च शुकश्चापि स्मृता(तौ) तालव्यदन्त्ययोः ॥१२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126