________________
लङ्गलमपि लाङ्गलं भंभरा भंभराल्यपि । त्वचि त्वच: किरोऽपि स्यात् किरौ प्रोक्तः पथः पथि ॥११७॥ अजगावाजकावेव भवेदाजगवं तथा । पिनाकेऽजगवं चाथ सैंहिकेये तमस्तथा ॥११८॥ चुलुकी चुलुपी च स्या-दुलूपी शिशुमारके । अगाधेऽस्थागमस्थाघ-मस्तघं च प्रयुज्यते ॥११९।। स्यान्मध्योभचतुर्थत्व(?)-महसो रहसस्तथा । चिह्न ललामशब्दोऽपि स्याददन्तश्च पुंसि च ॥१२०।। द्रविड: स्यान्ममध्योऽपि काफलं चापि कत्फले । व्रीडायां च भवेद् व्रीडो लज्जामात्रेऽप्यपत्रपा ॥१२१।। उडुकं मध्यहस्वं च हूस्वादिः स्यादलिन्दकः । तथा कुरबके रेफो निरुकारः प्रयुज्यते ॥१२२॥ मंजिष्ठायां तु भण्डीरी मध्यह्रस्वाऽपि पठ्यते । दीर्घादि वृश्चिके च स्या-दली स्यादालिरित्यपि ॥१२३॥ वु(वृ)क्को वृक्का स्मृतौ वृल्कि ग्रैवं ग्रैवेयकेऽपि च । ख) खोश्च खोस्श्च स्यात्तरा तरिरित्यपि ॥१२४॥ नासिकायां च नस् वापि मथि मन्थाक इत्यपि । कार्तस्वरं मध्यदन्त्यं सेहुड: स्यात् सिहुण्डवत् ।।१२५।। उष्ट्रोऽदन्त्यो लुलायोऽपि मारुतेऽपि हलं तथा । विद्यात् पुरुरवःशब्दे रुकारस्यापि दीर्घता ॥१२६॥ स्यात् कुरण्डोऽपि दीर्घादिः सुरज्येष्ठोऽपि सम्मतः । नालिकेर इदन्तोऽपि तथा दीर्घद्वितीयवान् ॥१२७|| काण्डे शर: शुभं क्षेमे शार: शबलवातयोः । किशुकश्च शुकश्चापि स्मृता(तौ) तालव्यदन्त्ययोः ॥१२८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org