________________
तवर्गपञ्चमोपान्त-मङ्गनं केवलं पुनः । हाहाशब्दस्तु सान्तोऽपि, कथितो दिव्यगायनः ॥१०॥ चतुःशाले चवर्गीय-मध्यं संजवनं विदुः । पवर्गमध्यः सान्तश्च रेफ: स्यादधमार्थकः ॥१०६।। अन्तस्थमध्यं वैयात्यं वेन्मि(मि ?) वेमश्च वेम च । कमने कामनोऽपि स्याद् दीर्घादिः कूकुदः स्मृतः ॥१०७|| प्रभायामपि भाः शब्दः सान्त पुल्लिङ्ग एव च । एक(ड?) मूकेऽडनेमूकः सूर्यां सूर्मिरपि स्मृता ॥१०८॥ एडूकं ह्रस्वमध्यं च ह्रस्वान्ता च पदव्यपि । शैवाले स्याच्च शेवालं शेवलं शैवलं तथा ॥१०९|| तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च । चित्रे च चित्रलोऽपि स्या-च्चितायां चित्तियाऽपि च ॥११०॥ छन्दसि स्यादनड्वाही भाषायामनडुह्यपि । . मध्येकारोऽपि चिपिटो हुस्वादिश्चारणोऽप्यवौ ॥१११॥ उत्तमायां गवि प्राहु-रैकारादि च नैचिकीम् । साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥११२॥ चवर्गादिरपि प्रोक्ता यामिः स्वसृकुलस्त्रियोः । वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥११३।। अप्सर: स्वप्सरा प्रोक्ता सुमनाः सुमनःसु च । बर्बरी बर्बरा शाके विवुत्तं हल्चतुष्टयम् (?) ॥११४॥ तन्द्री तन्द्रिश्च तन्द्रायां कुरङ्गे च कुरङ्गमः । प्रथगच्छश्च? भल्लश्च भालूकेऽप्यच्छभल्लवत् ॥११५॥ जलायुके जलोकं च जलौकं च जलूकवत् । घोघके (?) सांबुकं क्वापि बुध्ने बध्नश्च दृश्यते ॥११६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org