Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 27
________________ तवर्गपञ्चमोपान्त-मङ्गनं केवलं पुनः । हाहाशब्दस्तु सान्तोऽपि, कथितो दिव्यगायनः ॥१०॥ चतुःशाले चवर्गीय-मध्यं संजवनं विदुः । पवर्गमध्यः सान्तश्च रेफ: स्यादधमार्थकः ॥१०६।। अन्तस्थमध्यं वैयात्यं वेन्मि(मि ?) वेमश्च वेम च । कमने कामनोऽपि स्याद् दीर्घादिः कूकुदः स्मृतः ॥१०७|| प्रभायामपि भाः शब्दः सान्त पुल्लिङ्ग एव च । एक(ड?) मूकेऽडनेमूकः सूर्यां सूर्मिरपि स्मृता ॥१०८॥ एडूकं ह्रस्वमध्यं च ह्रस्वान्ता च पदव्यपि । शैवाले स्याच्च शेवालं शेवलं शैवलं तथा ॥१०९|| तूणा तूणी च तूणीरे मरीचं मरिचेऽपि च । चित्रे च चित्रलोऽपि स्या-च्चितायां चित्तियाऽपि च ॥११०॥ छन्दसि स्यादनड्वाही भाषायामनडुह्यपि । . मध्येकारोऽपि चिपिटो हुस्वादिश्चारणोऽप्यवौ ॥१११॥ उत्तमायां गवि प्राहु-रैकारादि च नैचिकीम् । साच्यर्थे साचिरप्युक्ता भूतार्थे च तथस्तथा ॥११२॥ चवर्गादिरपि प्रोक्ता यामिः स्वसृकुलस्त्रियोः । वातासहो वातसहो वातूले स्यादिदं द्वयम् ॥११३।। अप्सर: स्वप्सरा प्रोक्ता सुमनाः सुमनःसु च । बर्बरी बर्बरा शाके विवुत्तं हल्चतुष्टयम् (?) ॥११४॥ तन्द्री तन्द्रिश्च तन्द्रायां कुरङ्गे च कुरङ्गमः । प्रथगच्छश्च? भल्लश्च भालूकेऽप्यच्छभल्लवत् ॥११५॥ जलायुके जलोकं च जलौकं च जलूकवत् । घोघके (?) सांबुकं क्वापि बुध्ने बध्नश्च दृश्यते ॥११६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126