Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
19
काकाचिके काकचिके भवेद् ऋश्यस्तु रिश्यवत् । वातूलो वातुलोऽपि स्यात् कैकेयी केकयीत्यपि ॥७०॥ विरञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरञ्चनः । वरुटो वरुडोऽपि स्याद् विक्कपिक्को गजार्भके ॥७१।। कर्करेटौ करेटुश्च कुर्कुरः कुक्करोऽपि च । अम्बरीषश्चाम्बरिष-मुत्पले कुवलं कुवम् ॥७२॥ कुमारिले कुमारिश्च मन्थिर्मन्थो मथोऽपि च । वज्रा वज्री स्नुही भाग्यो-वरट्यां वरटाऽपि च ॥७३॥ कैटभा कैटभीश्चर्यो(?) कन्दर्यां कन्दराऽपि च । भिदिर्भेदश्च कुलिशे वातिर्वाते कूठे कुठिः ॥७४|| करे करिर्जटायां तु जटिः शिल्यां शिलापि च । पुलिन्दे स्यात् पू(पु)लीन्द्रोऽपि निषादिश्च निषादिनि ॥७५।। यतिश्च यतिनि प्रोक्तः सृक्विणी सृक्वसृक्वि च । वहितं च वहिनं तु निचुले हिज्जलेज्जलौ ॥७६॥ विखुविख्रस्तथा विग्रे नासाया विगमादिति । अमतिश्चामतिः काले रजन्यां च तमा तमी ॥७७॥ विश्वप्सश्चापि विश्वप्सा सिध्मः सिध्म च कथ्यते । स्याद् वृक्का वृक्कया सार्द्धं धर्मे धर्म च कीर्तितम् ॥७८।। उष्मया सार्द्धमुष्मापि मज्जोक्ता मज्जया सह । शेफशेफौ च शेवश्च शेपं प्रोक्तं च शेफसा ॥७९॥ प्रापुन्नाटकमित्याहुः प्रपुन्नाटप्रपुन्नटम् । अररश्चारस्चिापि कवाटे स्यात्कूवाटवत् ॥८०॥ भल्लो भलिश्च बाणे स्याद् दले पात्रं च पत्रवत् । इर्ममीर्मा व्रणेऽपि स्यात् निर्झ रे तु झरो झरा ।।८१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126