SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 19 काकाचिके काकचिके भवेद् ऋश्यस्तु रिश्यवत् । वातूलो वातुलोऽपि स्यात् कैकेयी केकयीत्यपि ॥७०॥ विरञ्चिश्च विरिञ्चोऽपि ब्रह्मण्यपि विरञ्चनः । वरुटो वरुडोऽपि स्याद् विक्कपिक्को गजार्भके ॥७१।। कर्करेटौ करेटुश्च कुर्कुरः कुक्करोऽपि च । अम्बरीषश्चाम्बरिष-मुत्पले कुवलं कुवम् ॥७२॥ कुमारिले कुमारिश्च मन्थिर्मन्थो मथोऽपि च । वज्रा वज्री स्नुही भाग्यो-वरट्यां वरटाऽपि च ॥७३॥ कैटभा कैटभीश्चर्यो(?) कन्दर्यां कन्दराऽपि च । भिदिर्भेदश्च कुलिशे वातिर्वाते कूठे कुठिः ॥७४|| करे करिर्जटायां तु जटिः शिल्यां शिलापि च । पुलिन्दे स्यात् पू(पु)लीन्द्रोऽपि निषादिश्च निषादिनि ॥७५।। यतिश्च यतिनि प्रोक्तः सृक्विणी सृक्वसृक्वि च । वहितं च वहिनं तु निचुले हिज्जलेज्जलौ ॥७६॥ विखुविख्रस्तथा विग्रे नासाया विगमादिति । अमतिश्चामतिः काले रजन्यां च तमा तमी ॥७७॥ विश्वप्सश्चापि विश्वप्सा सिध्मः सिध्म च कथ्यते । स्याद् वृक्का वृक्कया सार्द्धं धर्मे धर्म च कीर्तितम् ॥७८।। उष्मया सार्द्धमुष्मापि मज्जोक्ता मज्जया सह । शेफशेफौ च शेवश्च शेपं प्रोक्तं च शेफसा ॥७९॥ प्रापुन्नाटकमित्याहुः प्रपुन्नाटप्रपुन्नटम् । अररश्चारस्चिापि कवाटे स्यात्कूवाटवत् ॥८०॥ भल्लो भलिश्च बाणे स्याद् दले पात्रं च पत्रवत् । इर्ममीर्मा व्रणेऽपि स्यात् निर्झ रे तु झरो झरा ।।८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy