________________
भवेदमात्येऽप्यामात्यः पीनसे स्यादपि(पी)नसः । अन्वासनं समुद्दिष्टं तथा स्यादनुवासनम् ॥८२॥ यूषश्च यभनं यातु यकारद्धयवन्मतम् । पुरुणा च परुग्रन्थौ काश्मीरी कश्मिरीति च ॥८३।। मातुलिङ्गे मातुलुङ्गः कदल्यां कदलोऽपि च । परुषकफले प्रोक्तं परुषं फरुषं यथा ॥८४॥ नारङ्गे नागरङ्गोऽपि स्याद्विसेऽपि विसंडकम् । वार्ताकुरपि वार्ताके वृन्ताकोऽपि च दृश्यते ॥८५।। किसलं स्यात् किसलयं गुच्छे गुच्छो गुलञ्छवत् । आम्रातकं स्यादम्लात-ममिलातकमित्यपि ॥८६।। जम्बीरेऽपि च जम्भीरो जूर्णायां जूर्णी(णि ?) रित्यपि । तित्तिरौ तित्तरोऽपि स्यात् पीलक: स्यात् पिपीलके ॥८७।। गोदा गोदावरी नद्यां मथुरा मधुरा पुरि । कवियं कविकायां च स्याद् गवेधौ १० गवेधुका ॥८८॥ मञ्जुषायाँ च पिटक: पेटा पेटक इत्यपि । पादातौ च पदातिश्च पादातिश्च पदातिकः ।।८९॥ पादत्राणे तु पन्नधी, भवेत् प्राणहिताऽपि च । जलावुका जलौकायां गैरिके च गवेरुकम् ।।९०॥ नासिकायां च नकं स्याद् वक्रे वंकोऽप्युदाहृतः । सरणी च प्रसारण्यां मुष्के स्यात् फलकं फलम् ॥९१।। भवेद् दाढाऽपि दंष्ट्रायां शाल्मल्यां शाल्मलीति च । वध्वां च वधूकाऽपि स्या-दञ्जन्यामञ्जनाऽपि च ।।९२।।
१०. धान्य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org