________________
शफे खुरं कवर्गीयं खकारं चक्षुरक्षके । नापितस्योपकरणे कषसंयोग इष्यते ॥५८॥ अव्ययानव्ययं दोषा-शब्दे (?) रात्रौ प्रचक्ष्यते । कन्याकुब्जं कन्यकुब्जं कोशलोत्तरकोशला ॥५९॥ वाराणसीत्यपि प्रोक्ता तथा वाणारसीति च । तामलिप्ती दामलिप्ती द्रङ्गोऽप्या (पि ?) द्राङ्ग इत्यपि ॥६०॥ नन्दीश्च नन्दिपनी च(नन्दिः पत्री च?)पत्रिः स्याद्वस्नसा स्वसा । यमलं यामलं द्वन्द्वं दन्द्वं खडिलखल्लिडौ ॥६१॥ जनित्री जनयित्री च कफोणिः कफणिस्तथा । वल्मीकोऽपि च वाल्मीको वाली वालिश्च कथ्यते ॥६२।। सुमेन सार्द्धं कुसुमं मरन्दो मकरन्दवत् । अहितुण्डिकमित्याहु-स्तथा स्यादाहितुण्डिकः ॥६३।। विद्यादण्डीरमाण्डीर-मणिः स्यादाणिवत् पुनः । आमण्डमण्डावेरण्डे प्रियकेऽप्यासनोऽसनः ॥६४॥ अपिशलिमुनिभेदे भवेदापिशलिस्तथा । चन्द्रभागा चन्द्रभागी खनौ खानिरपि स्मृता ॥६५।। गोनासगौनसौ सर्प फल्गुनः फाल्गुनोऽर्ज(र्जु ?)ने । स्यात् तर्जन्या युतेऽङ्गुष्ठे प्रादेशोऽपि प्रदेशवत् ॥६६।। गजे मतङ्गमातङ्गौ नागे कालीयकालियौ । रोहीतके रोहितको-ऽप्यपष्टुरेऽप्यपष्टू(ष्ट ?)रम् (?) ॥६७॥ इषिका स्यादिषीकाऽपि वानायुजवनायुजौ । गुवाकोऽपि च गु(गू)वाकः कुचकूचौ स्तनेभयोः ॥६८।। कूकरे च कुणिः कूणिः नोकौ(?) कुलककूलको । पोगण्ड: स्यादपोगण्ड: उलूतः स्यादलुतवत् ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org