SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 17 कुमुदं च कुमुच्चापि योषिता योषिदित्यपि । शरद् भवेत शरदया प्रावृट् प्रावृषया सह ॥४६॥ नभं तु नभसा साकं तपं तु तपसा समम् । सहं च सहसा सार्द्धं महं च महसा द्युतौ ॥ ४७ ॥ तमसेन तमः प्रोक्तं रजेनापि रजः समम् । शाब्दिकैस्तु जलौकाभिः कथितोऽयं जलौकसः ॥४८॥ दिवं प्रोक्तं दिवातुल्यं पर्षत् परिषदा सह । वर्षाः स्युर्वरिषाभिश्च हर्षोऽपि हरिषेण च ॥ ४९ ॥ सर्षपः सरिषपश्च कर्षः स्यात् करिषेण च । माषो मारिष इत्युक्तः स्पर्शोऽपि स्परिशो यथा ॥५०॥ . एवमन्येऽपि बर्हादा-वृष्मवर्णाः प्रयोगतः । मूर्द्धरफा विकल्प्यन्ते छन्दोभङ्गभयादिना ॥५१॥ दक्षिणास्यामपाच्येव प्रायं त्वनशने विदुः । छन्दावभिप्रायवशौ कलज्ञः स्यात् कलाविदि ॥५२॥ समूहार्थस्य जातस्य चवगादिच्छ ( चवर्गादित्व ? ) मीरितम् । अन्तस्थीययकारत्वं यवसस्य तु कथ्यते ॥५३॥ तन्तुवायस्य वाग्रेऽपि तन्त्रादित्वं च दृश्यते । तुर्यस्वरादिर्वारुः कर्कट्यां पठ्यते बुधैः ॥५४॥ ह्रस्वादिरर्त्तिः पीडायां धनुः कोट्यामपीष्यते । एतौ मध्यतवर्गीयौ वैदूर्यमणि - शाबलौ ॥५५॥ तवर्गमध्यो रात्रौ च जम्बाले च निषद्वरः । चुल्यामुत्पूर्वकं ध्मानं धानं हानं च वर्तते ॥५६॥ तालव्यमध्यो विशद उर्ध्वशब्दो वकारवान् । यवानी स्याद् मध्यैव श्रावणो मासि मध्यवः ॥५७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy