Book Title: Anusandhan 1997 00 SrNo 10
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 19
________________ उत्तमे उत्तमं च स्या-दाहते स्यादनाहतम् । उदारे चानुदारः स्या-दुदने वानुदग्रवत् ॥१२॥ बन्धूरं बन्धुरं च स्या-दूरीकृतमुरीकृतम् । वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥१३॥ उषाप्यूषा ननादा व (?) ननान्दा च प्रकीर्तिता। हीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥१४॥ चण्डालोऽपि च चाण्डालो वदान्योऽपि वदन्यवत् । हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥१५॥ डाहालं च डहालं च डाहलं च प्रचक्षते । कुङ्कण: कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥१६॥ सहाचरः सहचरः स्फटिकं स्फाटिकं तथा । गन्धर्वोऽपि च गान्धर्व-श्चमरं चामरेऽपि च ॥१७॥ चोरश्चौरश्चटुश्चाटु-श्चेलं चैलं चमुश्चमूः । चञ्चुश्चञ्चूस्तलस्तालः श्यामल: श्यमलोऽपि च ॥१८॥ महिलायां महेलापि महेला स्यान्महेलिका । छेकश्छपिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥१९॥ गुग्गुलौ गुग्गुलोऽपि स्या-द्विगुलो(ल:)चापि हिङ्गलम् । मन्दिरे मंदिराऽपि स्याद् (?) वीर्ये वीर्याऽपि कथ्यते ॥२०॥ धन्याकमपि धान्याकं युतकं यौतकं तथा । कवाटं च कपाटं च कविलं कपिलं मतम् ॥२१॥ करवालः करवालो(?ला?) वनीपक-विनीयकौ । पारावतः पारापतो जवा स्याज्जपया सह ॥२२॥ जटायुषा जटायुं च विदायु(विदुरायु) तथाऽऽयुषा । सायं सायो भवेत् कोशः कोषः शण्टश्च घण्ढवत् ।।२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126