________________
उत्तमे उत्तमं च स्या-दाहते स्यादनाहतम् । उदारे चानुदारः स्या-दुदने वानुदग्रवत् ॥१२॥ बन्धूरं बन्धुरं च स्या-दूरीकृतमुरीकृतम् । वाल्हीकं वाल्हिकं चापि गाण्डीवो गाण्डिवोऽपि च ॥१३॥ उषाप्यूषा ननादा व (?) ननान्दा च प्रकीर्तिता। हीबेरे हिरिबेरं च चिकुरे चिहुरोऽपि च ॥१४॥ चण्डालोऽपि च चाण्डालो वदान्योऽपि वदन्यवत् । हालाहलं हालहलं वदन्त्यपि हलाहलम् ॥१५॥ डाहालं च डहालं च डाहलं च प्रचक्षते । कुङ्कण: कोङ्कणश्चापि श्यामाकः श्यामकोऽपि च ॥१६॥ सहाचरः सहचरः स्फटिकं स्फाटिकं तथा । गन्धर्वोऽपि च गान्धर्व-श्चमरं चामरेऽपि च ॥१७॥ चोरश्चौरश्चटुश्चाटु-श्चेलं चैलं चमुश्चमूः । चञ्चुश्चञ्चूस्तलस्तालः श्यामल: श्यमलोऽपि च ॥१८॥ महिलायां महेलापि महेला स्यान्महेलिका । छेकश्छपिल्लश्छेकालो विदग्धे छेकिलोऽपि च ॥१९॥ गुग्गुलौ गुग्गुलोऽपि स्या-द्विगुलो(ल:)चापि हिङ्गलम् । मन्दिरे मंदिराऽपि स्याद् (?) वीर्ये वीर्याऽपि कथ्यते ॥२०॥ धन्याकमपि धान्याकं युतकं यौतकं तथा । कवाटं च कपाटं च कविलं कपिलं मतम् ॥२१॥ करवालः करवालो(?ला?) वनीपक-विनीयकौ । पारावतः पारापतो जवा स्याज्जपया सह ॥२२॥ जटायुषा जटायुं च विदायु(विदुरायु) तथाऽऽयुषा । सायं सायो भवेत् कोशः कोषः शण्टश्च घण्ढवत् ।।२३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org