SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीधवलधिंग-श्रीगोडीपार्श्वनाथाय नमः ॥ प्रबोधमाधातुमशाब्दिकानां कृपामुपेत्याऽपि सतां कवीनाम् । कृतो मया रूपमवाप्य शब्द-भेदप्रकाशोऽखिलवाङ्मयाब्धिः ॥१॥ प्रायो भवेद् यः प्रचुप्रयोगः प्रामाणिकोदाहरणप्रतीतः । रूपादिभेदेषु विलक्षणेषु विचक्षणो निश्चिनुयात् तमेव ॥२॥ क्वचिन्मात्राकृतो भेदः क्वचिद्वर्णकृतोऽत्र च । क्वचिदर्थान्तरोल्लेखात् शब्दानां रूढितः क्वचित् ॥३॥ जागर्ति यस्यैष मन:सरोजे स एव शब्दार्थविवर्त्तनेशः । निजप्रयोगार्पितकामचार: परप्रयोगप्रसरार्गलश्चेत् ॥४॥ विन्द्यादगारमागार - मपगामापगामपि । अरातिमारातिमथो अम आमश्च कीर्तितः ।।५।। भवेदमर्ष आम!-ऽप्युङ्करोऽङ्कर एव च । अन्तरीक्षमन्तरिक्ष-मगस्त्योऽगस्तिरित्यपि ॥६।। अटरूष आटरूषोऽवश्याऽवश्याय इत्यपि । प्रतिश्यायः प्रतिश्या च भल्लूको भल्लुकोऽपि च ॥७॥ जम्बूकं जम्बकं प्राहुः शम्बूकमपि शम्बकम् । जतुका स्याज्जतूकाऽपि मसुरः स्यान्मसूरवत् ॥८॥ वास्तुकं वापि वास्तूकं देवकी दैवकी [तथा] । ज्योतिष ज्यौतिषं चापि ष्टेवनं ष्टीवनं तथा ॥९॥ सूत्रामाऽपि च सुत्रामा हनूमान् हनुमानपि । उषणं स्यादूषणं च भवेदुखरमूखरम् ॥१०॥ हारीतो हारितोऽपि स्यान्मुनि-पंक्षिविशेषयोः । तुवरस्तूबरोऽपि स्यात् कुबर: कूबरोऽपि च ।।११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520510
Book TitleAnusandhan 1997 00 SrNo 10
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year1997
Total Pages126
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy