________________
॥ ९२६ ॥ उक्तस्तावदन्नमस्कारः, साम्प्रतं सिद्धनमस्कार उच्यते, तत्र सिद्ध इति कः शब्दार्थः ?, उच्यते- 'षिधु संराद्धौ' 'राध साध संसिद्धौ' 'षिधू शास्त्रे माङ्गल्ये चे'ति, सिध्यति स्म सिद्धः, यो येन गुणेन निष्पन्नः - परिनिष्ठितो न पुनः साधनीयः सिद्धौंदनवत् स सिद्ध इत्यर्थः, स च सिद्धः शब्दसामान्याक्षेपतः, अर्थतस्तावच्चतुर्दशविधः, तत्र नामस्थापनाद्रव्यसिद्धान् व्युदस्य शेषनिक्षेपप्रतिपादनायाह
कम्मे १ सप्पे अ २ विजाय ३, मंते ४ जोगे अ ५ आगमे ६ ।
अथ ७ जत्ता ८ अभिप्पाए ९, तवे १० कम्मक्खए ११ इय ॥ ९२७ ॥
व्याख्या – कर्मणि सिद्धः कर्मसिद्धः - कर्मणि निष्ठां गत इत्यर्थः, एवं शिल्पसिद्धः २ विद्यासिद्धः ३ मन्त्रसिद्धः ४ योगसिद्धः ५ आगमसिद्धः ६ अर्थसिद्धः ७ यात्रासिद्धः ८ अभिप्रायसिद्धः ९ तपः सिद्धः १० कर्मक्षयसिद्ध ११ चेति गाथासमासार्थः ॥ ९२७ ॥ अवयवार्थं तु प्रतिद्वारमेव वक्ष्यति, तत्र नामस्थापनासिद्धौ सुखावसेयौ, द्रव्यसिद्धो निष्पन्न ओदनः सिद्ध इत्युच्यते, साम्प्रतं कर्मसिद्धादिव्याचिख्यासया कर्मादिस्वरूपमेव प्रतिपादयन्नाह -
कम्मं जमणाय रिओ एसयं सिप्पमन्नहाऽभिहिअं । किसिवाणिज्जाईयं घडलोहाराइभेअं च ॥ ९२८ ॥ व्याख्या—इह कर्म यदनाचार्योपदेशजं सातिशयमनन्यसाधारणं गृह्यते, 'शिल्पम्' अन्यथाऽभिहितमिति, कोऽर्थः ? - इह यदाचार्योपदेशजं ग्रन्थनिबन्धाद्वोपजायते सातिशयं कर्मापि तच्छिल्पमुच्यते, तत्र भारवहनकृषिवाणिज्यादि कर्म घटकारलोहकारादिभेदं च शिल्पमिति गाथार्थः ॥ ९२८ ॥ साम्प्रतं कर्मसिद्धं सोदाहरणमभिधित्सुराह—
Jain Education International
For Personal & Private Use Only
ainelibrary.org