Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 451
________________ भावार्थः-इह यद्विवक्षितं द्रव्यमङ्गुल्यादि तत् कृत्स्नं-परिपूर्णम् अनूनं स्वैरवयवैः सर्वमुच्यते, सकलमित्यर्थः, एवं तस्यैव द्रव्यस्य कश्चित्स्वावयवो देशः कृत्स्नतया-स्वावयवपरिपूर्णतया यदा सकलो विवक्ष्यते तदा देशोऽपि सर्वः, एवमुभयस्मिन् द्रव्ये तद्देशे च सर्वत्वं, तयोरेव यथास्वमपरिपूर्णतायामसर्वत्वं, ततश्चतुर्भङ्गी-द्रव्यं सर्व देशोऽपि सर्वः १ द्रव्यं सर्व IP देशोऽसर्वः २ देशः सर्वः द्रव्यमसर्व ३ देशोऽसर्वः द्रव्यमप्यसर्वम् ४, अत्र यथाक्रममुदाहरणं-सम्पूर्णमङ्गलि द्रव्यसर्व तदेव देशोनं द्रव्यमसर्व, तथा देश:-पर्व तत्सम्पूर्ण देशसर्वम् पर्वैकदेशः देशासर्वम् , एवं द्रव्यसर्वम् । अथाऽऽदेशसर्वमुच्यते-आदेशनम् आदेश उपचारो व्यवहारः, स च बहुतरे प्रधाने वाऽऽदिश्यते देशेऽपि, यथा विवक्षितं घृतमभि समीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्व घृतं भुक्तं भक्तं वा, प्रधानेऽप्युपचारः, यथा ग्रामप्रधानेषु पुरुषेषु ६ गतेषु ग्रामो गत इति व्यपदिश्यते, तत्र प्रधानपक्षमेवाधिकृत्याऽऽह ग्रन्थकारः-'आएस सबगामो'त्ति आदेशसर्व सर्वो ग्रामो गत इत्यायात इति वेति क्रियाभावनोक्तैव । एवमादेशसर्वमुक्तम्, अथ निरवशेषसर्वमभिधीयते, तत्राऽऽह'निस्सेसे सवगं दुविह'ति निरवशेषसर्व 'द्विविध' द्विप्रकारं (ग्रन्थाग्रम्० १२०००) सर्वापरिशेषसर्व तद्देशापरिशेषसर्व चेति गाथार्थः ॥ १८५ ॥ अत्रोदाहरणमाह, तत्रअणिमिसिणो सव्वसुरा सव्वापरिसेससव्वगं एअं१।तद्देसापरिसेसं सव्वे काला जहा असुरा २॥१८६॥(भा०ार | व्याख्या-'अनिमेषिणः सर्वसुराः' अनिमिषनयनाः सर्वे देवा इत्यर्थः, सर्वापरिशेषसर्वमेतत्, यस्मान्न कश्चिद्देवानां ६ मध्येऽनिमिषत्वं व्यभिचरतीति, तथा तद्देशापरिशेषमिति-तद्देशपरिश्रेषसर्व सर्वे काला यथा असुरा इति, इयमत्र भावना Jain Education International For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478