Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 471
________________ त्यागोऽवगम्यते, स च तद्विपक्षः सुगम एवेत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभयादू, गमनिकामात्रप्रधानत्वात् प्रारम्भस्य ॥ साम्प्रतं व्युत्सर्गप्रतिपादनायाऽऽह ग्रन्थकार:| दव्वविउस्सग्गे खलु पसन्नचंदो हवे उदाहरणं । पडिआगयसंवेगो भामिवि होइ सो चेव ॥१०५१॥ __ व्याख्या-इह द्रव्यव्युत्सर्गः-गणोपधिशरीरानपानादिव्युत्सर्गः, अथवा द्रव्यव्युत्सर्गः आर्तध्यानादिध्यायिनः कायोत्सर्ग इति, अत एवाऽऽह-द्रव्य व्युत्सर्गे खलु प्रसन्नचन्द्रो भवत्युदाहरणं, भावव्युत्सर्गस्त्वज्ञानादिपरित्यागः, अथवा धर्मशुक्लध्यायिनः कायोत्सर्ग एव, तथा चाऽऽह-प्रत्यागतसंवेगो 'भावेऽपि' भावव्युत्सर्गेऽपि भवति स एव-प्रसन्नचन्द्र | उदाहरणमिति गाथाक्षरार्थः ॥ १०५१॥ भावार्थः कथानकादवसेयः, तच्चेदम्-खिइपइटिए णयरे पसन्नचंदो राया, तत्थ भगवं महावीरो समोसढो, तओ राया धम्म सोऊण संजायसंवेगो पबइओ, गीयत्थो जाओ। अण्णया जिणकप्पं |पडिवजिउकामो सत्तभावणाए अप्पाणं भावेइ, तेणं कालेणं रायगिहे णयरे मसाणे पडिमं पडिवन्नो, भगवं च महावीरो तत्थेव समोसढो, लोगोऽवि वंदगो णीइ, दुवे य वाणियगा खिइपइडियाओ तत्थेव आयाया, पसन्नचंदं पासिऊण एगेण भणियंएस अम्हाणं सामी रायलच्छि परिच्चइय तवसिरिं पडिवन्नो, अहो से धन्नया, बितिएण भणियं-कुओ एयस्स धण्णया, क्षितिप्रतिष्ठिते नगरे प्रसन्नचन्द्रो राजा, तत्र भगवान महावीरः समवसृतः, ततो राजा धर्म श्रुत्वा संजातसंवेगः प्रबजितः, गीतार्थो जातः । [अन्यदा जिनकल्पं प्रतिपत्तुकामः सत्त्वभावनयाऽऽत्मानं भावयति, तस्मिन् काले राजगृहे नगरे श्मशाने प्रतिमा प्रतिपन्नः, भगवांश्च महावीरस्तत्रैव | समवस्तः, लोकोऽपि बन्दको निर्गच्छति, द्वौ च वणिजी क्षितिप्रतिष्ठितात् तत्रैवागतो. प्रसन्नचन्द्र रटा एकेन भणितं-एषोऽस्माकं स्वामी राज्यलक्ष्मी परित्यज्य तपःश्रियं प्रतिपन्नः, अहो अस्य धन्यता, द्वितीयेन भणितं-कुत एतस्य धन्यता, COSAUSIOS Jain Education and onal For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478