Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 459
________________ मेव तथा क्रियारूपेण परिणतेरित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति, अपरस्त्वाह-न करोमि न कारयामि कुर्वन्तं न समनुजानामीत्येतावता ग्रन्थेन गतेऽन्यमपीत्यतिरिच्यते, तथा चातिरिक्तन सूत्रेण नार्थः, उच्यते, साभिप्रायकमिदम् , अनुक्तस्याप्यर्थस्य सङ्ग्रहार्थ, यस्मात् सम्भावनेऽपिशब्दोऽयं, सोऽयमपिशब्दः उभयशब्दमध्यस्थ एतत् करोति-यथा कुर्वन्तं नानुजानामि एवं कारयन्तमप्यनुज्ञापयन्तमप्यन्यं नानुजानामि, तथा यथा वर्तमानकाले कुर्वन्तमन्यं न समनुजानामीति एवमपिशब्दादतीतकाले कृतवन्तमपि कारितवन्तमपि तथाऽनागतेऽपि काले करिष्यन्तमपि कारयिष्यन्तमपीति त्रिकालोपसङ्ग्रहो वेदितव्य इति, न क्रियाक्रियावतोभेंद एव अतो न केवला क्रिया सम्भवतीति ख्यापनार्थमन्यग्रहणम्, अत्रापि बह वक्तव्यं तत्तु नोच्यते मा भूत मुग्धमतिविनेयसम्मोह इति, किश्चित्तु सूत्रस्पर्शनि युक्तो वक्ष्याम इति । एवं तावदिदमेतावत् सूत्रस्य व्याख्यातम् ॥ इह च सर्व सावध योग प्रत्याख्यामीत्यत्र प्रत्याख्यान || गृहस्थान साधूंश्चाधिकृत्य भेदपरिणामतो निरूपयन्नाह सीआलं भंगसयं तिविहं तिविहेण समिइगुत्तीहिं । सुत्तप्फासिअनिज्जुत्तिवित्थरत्यो गओ एवं ॥ १०४५ ॥ . व्याख्या-गुरवस्तु व्याचक्षते-तदिदमेतावत् सूत्रस्य व्याख्यातं, साम्प्रतं त्रिविधं त्रिविधेनेत्येतदेव किल व्याचष्टे, तत्र त्रिविधं सावधं योगं प्रत्याख्येयं कृतकारितानुमतिभेदभिन्नं त्रिविधेन मनसा वाचा कायेनेति करणेन प्रत्याख्याति यतः अतस्त झेदोपदर्शनायैवाऽऽह-सिआलं भंगसयं गाहा॥अत्राऽऽह-यद्येवमिह सर्वसावद्ययोगप्रत्याख्यानाधिकारात् सप्तचत्वारिंशद| धिकशतं प्रत्याख्यानभेदानां गृहस्थप्रत्याख्यानभेदत्वादयुक्तमेतदिति, अत्रोच्यते, न, प्रत्याख्यानसामान्यतो गृहस्थप्रत्या Jain Education International For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478