Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
सूत्रस्पर्शिकनि० वि०१
॥४८३॥
किलैता अष्टौ प्रवचनमातरः सामायिकसूत्रसङ्ग्रहः, तत्र 'करेमि भंते ! सामाइयंति पंच समिईओ गहिआओ, 'सवं सावज जोगं पच्चक्खामित्ति तिणि गुत्तीओ गहियाओ, एत्थ समिईओ पवत्तणे निग्गहे य गुत्तीओत्ति, एयाओ अह । पवयणमायाओ जाहिं सामाइयं चोद्दसय पुवाणि मायाणि, माउगाओत्ति मूलं भणियंति होइ ॥ इहैव प्रायः सूत्रस्पर्शनियुक्तिवक्तव्यताया उक्तत्वात् मध्यग्रहणे च तुलादण्डन्यायेनाऽऽद्यन्तयोरप्याक्षेपादिदमाह-'सुत्तप्फासियणिज्जुत्तिवित्थरत्थो गओ एवं'ति सूत्रस्पर्शनियुक्तिविस्तरार्थों गतः, 'एवम् उक्तेन प्रकारेणेति गाथार्थः ॥ १०४५ ॥ साम्प्रतं सूत्र एवातीतादिकालग्रहणं त्रिविधमुक्तमिति दर्शयन्नाह
सामाइअं करेमी पच्चक्खामी पडिक्कमामित्ति । पञ्चुप्पन्नमणागयअईअकालाण गहणं तु ॥१०४६॥ व्याख्या-सामायिकं करोमि तथा प्रत्याख्यामि सावधं योगमिति, तथा प्रतिक्रमामीति प्राकृतस्य, इदं हि यथासङ्ख्यमेव प्रत्युत्पन्नानागतातीतकालानां ग्रहणमिति, उक्तं च-'अईयं जिंदइ पडुप्पन्नं संवरेइ अणागयं पच्चक्खाइ'त्ति गाथार्थः॥ १०४६ ॥ साम्प्रतं तस्य भदन्त ! प्रतिक्रमामीत्येतद् व्याख्यायते-तत्र 'तस्ये' त्यधिकृतो योगः संबध्यते, ननु च प्रतिक्रमामीत्यस्याः क्रियायाः सोऽधिकृतो योगः कर्म, कर्मणि च द्वितीया विभक्तिरतस्तमित्यभिधेये तस्येत्यभिधीयते
॥४८॥
करोमि भदन्त ! सामायिकमिति पञ्च समितयो गृहीताः, सर्व सावधं योगं प्रत्याचक्ष इति तिस्रो गुप्तयो गृहीताः, अत्र समितयः प्रवर्त्तने निग्रहे च गुप्तय इति, एता अष्ट प्रवचनमातरो याभिः (यासु वा) सामायिक चतुर्दश च पूर्वाणि मातानि, मातर इति मूलं इति भणितं भवति । २ अतीतं निन्दति प्रत्युत्पन्नं संवृणोति अनागतं प्रत्याख्याति
Jain Education
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478