Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 463
________________ बिर्तियं काएणवि होइ तितयमेव, नवमोऽप्युक्तः इदानीमागतगुणनं क्रियते – 'लद्धफलमाणमेअं भंगा उ हवंति अउ - पण्णासं । तीयाणागय संपइगुणियं कालेण होइ इमं ॥ १ ॥ सीयालं भंगसयं कह ? कालतिएण होइ गुणणाओ । तीयस्स | पक्किमणं पञ्चुप्पन्नस्स संवरणं ॥ २ ॥ पञ्चक्खाणं च तहा होइ य एसस्स एव गुणणाओ । कालतिएणं भणियं जिणग हरवायएहिं च ॥ ३ ॥ एवं तावद् गृहस्थप्रत्याख्यानभेदाः प्रतिपादिताः, साम्प्रतं साधुप्रत्याख्यानभेदान् सूचयन्नाह'तिविहं तिविहेणं' ति अयमत्र भावार्थ:-त्रिविधं त्रिविधेनेत्यनेन सर्वसावद्ययोगप्रत्याख्यानादर्थतः सप्तविंशतिभेदानाहते चैवं भवन्ति - इह सावद्ययोगः प्रसिद्ध एव हिंसादिः, तं स्वयं सर्वं न करोति न कारयति कुर्वन्तमप्यन्यं न समनुजानाति, एकैकं करणत्रिकेन - मनसा वाचा कायेनेति नव भेदाः, अतीतानागतवर्तमानकालत्रयसम्बद्धाश्च सप्तविंशतिरिति, इदं च प्रत्याख्याने भेदजालं 'समिइगुत्ती हिंति समितिगुप्तिषु सतीषु भवति, समितिगुप्तिभिर्वा निष्पद्यते, तत्रेर्यासमितिप्रमुखाः प्रवीचाररूपाः समितयः पञ्च गुप्तयश्च प्रवीचाराप्रवीचाररूपा मनोगुत्याद्यास्तिस्र इति उक्तं च- 'सेमिओ नियमा गुत्तो गुत्तो समियत्तणंमि भइयो । कुसलवइमुदीरंतो जं वइगुत्तोऽवि समिओऽवि ॥ १ ॥' अन्ये तु व्याचक्षते - १] द्वितीयं कायेनापि भवति त्रितयमेव ९ । १ लब्धफलमानमेतत् भङ्गास्तु भवन्त्येकोनपञ्चाशत् । अतीतानागतसम्प्रतिगुणितं कालेन भवतीदम् ॥ १ ॥ सप्तचत्वारिंशं भङ्गशतं कथं ? कालत्रिकेण भवति गुणनात् । अतीतस्य प्रतिक्रमणं प्रत्युत्पन्नस्य संवरणम् ॥ २ ॥ प्रत्याख्यानं च तथा भवति चैध्यस्य एवं गुणनात् । कालनिकेन भणितं ( सप्तचत्वारिंशं शतं ) जिनगणधरवाचकैश्च ॥ ३ ॥ २ समितो नियमाद्भुतो गुप्तः समितत्वे भक्तव्यः । कुशलं वच उदीरयन् यद्वचोगुप्तोऽपि समितोऽपि ॥ १ ॥ Jain Education International For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478