Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
सूत्रस्पर्शिवि०१
कनि०
5555
॥४८४॥
अत्राऽऽह-ननु पूर्वमुक्त एव भदन्तः स एवानुवर्तिष्यते, एवमर्थ चादौ प्रयुक्त इत्यतः किं पुनरनेनेति?, अत्रोच्यते, अनुवर्तनार्थमेव अयं पुनरनुस्मरणाय प्रयुक्तः, यतः परिभाषा-अनुवर्तन्ते च नाम विधयो, न चानुवर्तनादेव भवन्ति, किं, तर्हि ?, यत्नाद्भवन्ति, 'स चायं यत्नः पुनरुच्चारण'मिति, अथवा सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः, अनेन चैतत् ज्ञापितं भवति-सर्वक्रियावसाने गुरोः प्रत्यर्पणं कार्यमिति,उक्तं च भाष्यकारण-'सामाइयपच्चप्पणवयणो वाडयं भदंतसहोत्ति । सबकिरियावसाणे भणियं पच्चप्पणमणेणं ॥१॥” इति कृतं प्रसङ्गेन, प्रतिक्रमामीत्यत्र प्रतिक्रमणं मिथ्यादुष्कृतमभिधीयते, तच्च द्विधा-द्रव्यतो भावतच, तथा चाह नियुक्तिकारःदव्वमि निण्हगाह कुलालमिच्छंति तत्थुदाहरणं । भावंमि तदुवउत्तो मिआवई तत्थुदाहरणं ॥ १०४८॥ व्याख्या-द्रव्य इति द्वारपरामर्शः, द्रव्यप्रतिक्रमणं तदभेदोपचारात् तद्वदेवोच्यते, अत एवाह-निवादि, आदिशब्दादनुपयुक्तादिपरिग्रहः, कुलालमिथ्यादुष्कृतं तत्रोदाहरणं, तच्चेदम्-ऐगस्स कुंभकारस्स कुडीए साहुणो ठिया, तत्थेगो चेलओ तस्स कुंभगारस्स कोलालाणि अंगुलिधणुहएणं पाहाणएहिं विंधइ, कुंभगारेण पडिजग्गिउं दिट्ठो, भणिओय-कीस मे कोलालाणि काणेसि?, खुड्डओभणइ-मिच्छामि दुक्कडंति, एवं सो पुणोऽवि विधिऊण मिच्छामिदुक्कडंति,
सामायिकप्रत्यर्पणवचनो वाऽयं भदन्तशब्द इति । सर्वक्रियावसाने भणितं प्रत्यर्पणमनेन ॥१॥ २ एकस्य कुम्भकारस्य कुव्यां (गृहे) साधवः स्थिताः, तत्रैकः क्षुल्लकस्तस्य कुम्भकारस्य भाजनानि अङ्गुलधनुषा पाषाणैः काणीकरोति, कुम्भकारेण प्रतिजागर्य दृष्टः, भणितश्च-कथं मम भाजनानि काणयसि!, क्षुल्लको भणति-मिथ्या मे दुष्कृतमिति, एवं स पुनरपि काणयित्वा मिथ्या मे दुष्कृतमिति (करोति),
॥४८४॥
Jain Educat
ISL
nal
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478