Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
मिति, *द्विपदादिद्रव्यस्य चान्ये, उक्तं द्रव्यजीवितं, 'आउयसद्दबया भवे ओहे'त्ति आयुरिति प्रदेशकर्म तद्रव्यसहचरितं जीवस्य प्राणधारणं सदैव संसारे भवेदोघ इति द्वारपरामर्शः ओघजीवितं, सामान्यजीवितमित्यर्थः, इदं चाङ्गीकृत्य यदि परं सिद्धा मताः, न पुनरन्ये कदाचन इत्युक्तमोघजीवितं, 'रइयाईण भवे'त्ति नारकादीनामिति. आदिशब्दात् तिर्यनरामरपरिग्रहः, भव इति द्वारपरामर्शः, स्वभवे स्थितिर्भवजीवितमिति, उक्तं भवजीवितं, 'तब्भव तत्थेव उववत्तित्ति तस्मिन् भवे जीवितम् तद्भवजीवितं, इदं चौदारिकशरीरिणामेव भवति, यत आह-तत्रैवोपपत्तिः, तत्रैवोपपात इत्यर्थः, भवश्च तदायुष्कबन्धस्य प्रथमसमयादारभ्य यावच्चरमसमयानुभवः, स चौदारिकशरीरिणां तिर्यङ्मनुष्याणां,तद्भवोपपत्तिमागतानां तद्भवजीवितं भवति, ननु च भवजीवितमनन्तरं चतुर्दा वर्णितं नारकादिगतिसमापन्नानां याऽवस्था, तत्र स्वायुष्कबन्धकालात् प्रभृति सर्वेव भवस्थितिः यथास्वमबाधासहिता भवजीवितम् , इह तु तद्भवजीविते आबाधोनिका कर्मस्थितिः, तद्भवोदयात् प्रभृति कर्मनिषेकः तद्भवजीवितमिति महान् विशेषः, तत् किमर्थमौदारिकाणामेव?, उच्यते ?, तेषां हि गर्भकालव्यवहितं योनिनिःसरणं जन्मोच्यते,तेन च गर्भकालेन सहैव तद्भवजीवितं, वैक्रियशरीरिणां तूपपातादेव कालान्तराव्यवहितं जन्मेति जीवितं स्वाबाधाकालसहितमितिकृत्वा तद्भवजीवितमौदारिकाणामेव सुप्रतिपादमिति, तेषां चेदं स्वकायस्थित्यनुसारतो विज्ञेयमिति गाथार्थः ॥ १८९ ॥ उक्तं तद्भवजीवितं, भोगंमि चकिमाई ७ संजमजीअंतु संजयजणस्साजस९कित्ती अभगवओ१०संजमनरजीव अहिगारो१०४४ __ व्याख्या-भोगंमित्ति द्वारपरामर्शः,भोगजीवितं च चक्रवादीनाम् , आदिशब्दाद्वलदेववासुदेवादिपरिग्रहः, उक्तं च
* पारदादिव्यावस्थेत्यन्ये.
Jain Education Inter
nal
For Personal & Private Use Only
www.
library.org

Page Navigation
1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478