Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 455
________________ प्रत्याख्यानं, 'भावे पुणो दुविहं'ति भाव इति द्वारपरामर्शः, भावप्रत्याख्यानं पुनर्द्विविधं तत्र भावप्रत्याख्यानमिति भावस्य - सावद्ययोगस्य प्रत्याख्यानं भावतो वा-शुभात् परिणामोत्पादाद् भावहेतोर्वा - निर्वाणार्थं वा भाव एव वा - सावद्ययोगविरतिलक्षणः प्रत्याख्यानं भावप्रत्याख्यानमिति गाथार्थः ॥ १०४० ॥ साम्प्रतं द्वैविध्यमेवोपदर्शयन्नाह - सुअ णोसुअ सुअ दुविहं पुव्व १ मपुव्वं २ तु होइ नायव्वं । नोसुअपच्चक्खाणं मूले १ तह उत्तरगुणे अ २ ॥ १०४१॥ • व्याख्या - 'सुयणोसुय'त्ति श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुयं दुविहं'ति श्रुतप्रत्याख्यानं द्विविधं द्वैविध्यमेव दर्शयति- 'पुत्रमपुत्रं तु होइ णायबं 'ति पूर्वश्रुत प्रत्याख्यानमपूर्वश्रुतप्रत्याख्यानं च भवति ज्ञातव्यमिति, तत्र पूर्वश्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्वमेव, अपूर्व श्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादिकमिति, तथा 'नोसुयपच्चक्खाणं ति | नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यदित्यर्थः, 'मूले तह उत्तरगुणे य'त्ति मूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं च, तत्र मूलगुणप्रत्याख्यानं देशसर्वभेदं, देशतः श्रावकाणां सर्वतस्तु संयतानामिति, इहाधिकृतं सर्व, सामायिकानन्तरं सर्वशब्दोपादानादिति गाथार्थः ॥ १०४१ ॥ इह च वृद्धसम्प्रदायः 'पंच्चक्खाणे उदाहरणं रायधूयाए - वरिसं मंसं न खाइयं, पारणए अणेगाणं जीवाणं घाओ कओ, साहूहिं संबोहिया, पवइया, पुढं दबपञ्चक्खाणं पच्छा भावपच्चक्खाणं जातमिति कृतं प्रसङ्गेन । प्रत्याख्यामीति व्याख्यातः सूत्रावयवः, अधुना यावज्जीवतयेति व्याख्यायते - इह चाऽऽदौ भावार्थमेवाभिधित्सुराह - १ प्रत्याख्याने उदाहरणं राजदुहितुः वर्षं मांसं न खादितं, पारणकेऽनेकेषां जीवानां घातः कृतः, साधुभिः संबोधिता, प्रब्रजिता, पूर्व द्रव्यप्रत्याख्यानं, पश्चाद्भावप्रत्याख्यानं जातं । Jain Education International For Personal & Private Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478