Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
एवौपशमिकः, कर्मणां क्षयादेव शुभः सर्वः क्षायिकः, शुभाशुभश्च मिश्रः सर्वः क्षायोपशमिकः, परिणतिस्वभावः सर्वः शुभाशुभश्च पारिणामिकः एवं व्युत्पत्त्यर्थप्ररूपणां कृत्वा प्रकृतयोजनामुपदर्शयन्नाह–'एत्थ उ'इत्यादि, अत्र तु 'क्षायोपशमिक' इति क्षायोपशमिकभावसर्वेण अधिकारः, अवतार उपयोग इत्यर्थः. 'अशेषसर्वेण च' निरवशेषसर्वेण चेति गाथार्थः ॥ १८८ ॥ व्याख्यातः सौत्रः सर्वावयवः, साम्प्रतं सावद्यावयवव्याचिख्यासयाऽऽहकम्ममवजं जंगरिहिअंति कोहाइणो व चत्तारि । सह तेण जो उ जोगो पञ्चक्खाणं इवइ तस्स ॥१०३८॥ __व्याख्या-'कर्म' अनुष्ठानमवद्यं भण्यते, किमविशेषेण ?, नेत्याह-'यद् गर्हितम्' इति यन्निन्द्यमित्यर्थः, क्रोधादयो वा चत्वारः, अवद्यमिति वर्तते, सर्वावद्यहेतुत्वात् तेषां कारणे कार्योपचारात् , सह तेन-अवधेन 'यस्तु योगः य एवं व्यापारः असौ सावद्य इत्युच्यते, 'प्रत्याख्यानं' निषेधलक्षणं भवति 'तस्य' सावद्ययोगस्य, पाठान्तरं वा-'कम्मं वजं जं गरहियति इह तु 'वृजी वर्जने' इत्यस्य वर्जनीयं वयं त्यजनीयमित्यर्थः, शेषं पूर्ववत् , नवरं सह वर्ण्यन सवर्व्यः प्राकृते सकारस्य दीर्घादेशात्सावजमिति गाथार्थः॥१०३८॥अधुना योगोऽभिधीयते, स च द्विधा-द्रव्ययोगो भावयोगश्च,तथा चाऽऽह| व्वे मणवयकाए जोगा व्वा दुहा उ भावंमि । जोगा सम्मत्ताई पसत्थ इअरो उ विवरीओ ॥ १०३९ ॥ |
व्याख्या-'द्रव्य' इति द्वारपरामर्शः, 'मणवइकाए जोगा दवेति मनोवाकाययोग्यानि द्रव्याणि द्रव्ययोगः, एतदुक्तं भवति-जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ भावमि'त्ति द्विधैव द्विप्रकार एव, 'भाव' इति भावविषयः 'जोगो'त्ति योगोऽधि
Jain Education International
For Personal & Private Use Only
wintainelibrary.org

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478