Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यक हारिभद्रीया
॥४७६॥
कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे - कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः तथा चाऽऽह - घटा दीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च | गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति, कस्य ? - गुणस्य, किं केन सम्बद्धमिति, न किश्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्मादिगुणिभ्य एकान्त भिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूद्या इति गाथार्थः ॥ १०३६ ॥ कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोषोऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावद्यं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽहनामं १ ठवणा २ दविए ३ आएसे ४ निरवसेसए ५ चेव । तह सव्वधत्तसव्वं च ६ भावसव्वं च सत्तमयं ७ ॥
व्याख्या — इह सर्वमिति कः शब्दार्थः ?, उच्यते 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्व द्रव्यसर्वम् आदेश सर्वं निरवशेषसर्व, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ॥ १०३७ ॥ व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासया पुनराह -
दविए चउरो भंगा सव्व १मसव्वे अ २ दव्व १ देसे अ २ । आएस सव्वगामो नीसेसे सव्वगं दुविहं ॥१८५॥ भा०) व्याख्या - ' द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति तानेव सूचयन्नाह - 'सबमसबे अदब देसे य'त्ति - अयमत्र
Jain Educationonal
For Personal & Private Use Only
सामायिकनिक्षेपनि ० वि० १
॥४७६॥
www.jainelibrary.org

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478