SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया ॥४७६॥ कर्म तस्यैव च प्रयत्नविशेषः करणमिति, तथाऽर्थान्तरे - कर्तृकर्मकरणानां भेदे दृष्ट एव तद्भावः तथा चाऽऽह - घटा दीनि यथा करोतीति वर्तते, तत्रापि कुलालः कर्ता घटः कर्म दण्डादि करणमिति । इह च सामायिकं गुणो वर्तते, स च | गुणिनः कथञ्चिदेव भिन्न इति । विपक्षे बाधामुपदर्शयति-द्रव्यात् सकाशाद्, गुणिन इत्यर्थः, एकान्तेनैवार्थान्तरभावे-भेदे सति, कस्य ? - गुणस्य, किं केन सम्बद्धमिति, न किश्चित् केनचित् सम्बद्धं, ज्ञानादीनामपि गुणत्वात्तेषामपि चाऽऽत्मादिगुणिभ्य एकान्त भिन्नत्वात्, संवेदनाभावतः सर्वव्यवस्थानुपपत्तेरिति भावना, एवमेकान्तेनानर्थान्तरभावेऽपि दोषा अभ्यूद्या इति गाथार्थः ॥ १०३६ ॥ कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने, अत एव चात्र पुनरुक्तदोषोऽपि नास्ति, अनुवादद्वारेण चालनाप्रत्यवस्थानप्रवृत्तेरित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, तत्र सर्वं सावद्यं योगमित्याद्यवशिष्यते, तदिह सर्वशब्दनिरूपणायाऽऽहनामं १ ठवणा २ दविए ३ आएसे ४ निरवसेसए ५ चेव । तह सव्वधत्तसव्वं च ६ भावसव्वं च सत्तमयं ७ ॥ व्याख्या — इह सर्वमिति कः शब्दार्थः ?, उच्यते 'सृ गतौ' इत्यस्य औणादिको वप्रत्ययः सर्वशब्दो वा निपात्यते स्त्रियते स इति श्रियते वाऽनेनेति सर्वः, तदिदं च नामसर्व स्थापनासर्व द्रव्यसर्वम् आदेश सर्वं निरवशेषसर्व, तथा सर्वधत्तसर्वं च भावसर्वं च सप्तममिति समासार्थः ॥ १०३७ ॥ व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याचिख्यासया पुनराह - दविए चउरो भंगा सव्व १मसव्वे अ २ दव्व १ देसे अ २ । आएस सव्वगामो नीसेसे सव्वगं दुविहं ॥१८५॥ भा०) व्याख्या - ' द्रव्य' इति द्रव्यसर्वे चत्वारो भङ्गा भवन्ति तानेव सूचयन्नाह - 'सबमसबे अदब देसे य'त्ति - अयमत्र Jain Educationonal For Personal & Private Use Only सामायिकनिक्षेपनि ० वि० १ ॥४७६॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy