Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 423
________________ | मस्तीति सभावार्थाऽक्षरगमनिका ॥ उपचारमात्रा द्वेक्षुकरणादि, यथेक्षुक्षेत्रकरणं शालिक्षेत्रकरणम्, अथवाऽऽदिशब्दाद् यत्र प्ररूप्यते क्रियते वेति गाथार्थः ॥ १०१७ | उक्त क्षेत्रकरणम्, इदानीं कालकरणस्यावसरः, तत्रेयं गाथाकालेवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणेहिंडणेगहा होइ ववहारो ॥ १०१८ ॥ अस्या व्याख्या -कलनं कालः कलासमूहो वा कालस्तस्मिन् कालेऽपि न केवलं क्षेत्रस्य किं ?, नास्ति करणंन विद्यते कृतिः, कुतः ? - तस्य वर्तनादिरूपत्वाद्, वर्तनादीनां च स्वयमेव भावात्, समयाद्यपेक्षायां च परोपादानत्वादिति भावना, आह-यद्येवं किमिति निर्युक्तिकृतोपन्यस्तमिति १, अत्रोच्यते, तथाऽपि पुनर्व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्तनाद्यभिव्यञ्जकत्वाद् द्रव्याणि गृह्यन्ते, तत्प्रमाणेन - तन्नीत्या तद्वलेन भवतीति, तथाहिवर्तनादयस्तद्वतां कथञ्चिदभिन्ना एव, ततश्च तद्वतां करणे तेषामपि करणमेवेति भावना, समयादिकालापेक्षायामपि व्यवहारनयादस्ति कालकरणमिति, आह च-ववबालवादिकरणैरनेकधा भवति व्यवहार इति, अत्रादिशब्दात् कौलवादीनि गृह्यन्ते, उक्तं च- 'वं च बालवं चेव, कोलवं थीविलोयणं । गराइ वणियं चेव, विट्ठी भवइ सत्तमा ॥ १ ॥ एयाणि सत्त करणाणि चलाणि वति, अवराणि सउणिमाईणि चत्तारि थिराणि, उक्तं च- 'सउणि चउप्पय णागं किंछुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्ती सउणी सेसं तियं कमसो ॥ १ ॥ एस एत्थ भावणा - बहुलचउद्दसिराईए सउणी हवति, १ बवं च बालवं चैव कौलवं स्त्रीविलोचनम् । गरादि वणिक् चैव विष्टिर्भवति सप्तमी ॥ १ ॥ एतानि सप्त करणानि चलानि वर्त्तन्ते, अपराणि शकुन्यादीनि चत्वारि स्थिराणि - शकुनिश्चतुष्पदं नागः किंस्तुघ्नं च करणानि स्थिराणि चतुधी । कृष्णचतुर्दशीरात्रौ शकुनिः शेषं त्रिकं क्रमशः ॥ १ ॥ एषाऽत्र भावना - कृष्णचतुशीरात्रौ शकुनिर्भवति Jain Educatio In all onal For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478