Book Title: Aavashyaksutram Part 02
Author(s): Haribhadrasuri,
Publisher: Agamoday Samiti
View full book text
________________
आवश्यकहारिभद्रीया
॥४६८॥
Jain Education
'जिनैः' तीर्थकरैः, सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत्, निश्चयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधर योरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग इति उक्तं च भाष्यकारेण - 'णणु णिग्गमे गयं चिय केण कयंति त्ति का पुणो पुच्छा? । भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥ १॥" बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥ साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद् विवृण्वन्नाह - तं केसु कीरई तत्थ नेगमो भणइ इट्ठदव्वेसु । सेसाण सव्वदव्वेसु पज्जवेसुं न सव्र्व्वसुं ॥ १७६॥ (दा० ३) (भा० )
व्याख्या—'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः 'क्रियते' निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र 'णेगमो भणई' नैगमनयो भाषते - 'इष्टद्रव्येषु' इति मनोज्ञपरिणामकारणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि- 'मैणुष्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ॥ १ ॥ इत्यागमः, 'शेषाणां' सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि - यो यत्र निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, एकभाग एव स्थितत्वात् इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः तथा चोक्तं
१ ननु निर्गमे गतमेव केन कृतमितीति का पुनः पृच्छा ? । भण्यते स बाह्यकर्त्ता इहान्तरङ्गो विशेषोऽयम् ॥ १ ॥ २ मनोज्ञं भोजनं भुक्त्वा मनोज्ञं शयनासनम् । मनोज्ञेऽगारे मनोज्ञं ध्यायति मुनिः ॥ १ ॥
Donal
For Personal & Private Use Only
सूत्रस्पर्श०
करणस्व० वि० १
॥४६८॥
www.jainelibrary.org

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478