SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया ॥४६८॥ Jain Education 'जिनैः' तीर्थकरैः, सूत्रं त्वङ्गीकृत्य गणधरैरिति, व्यवहारमतमेतत्, निश्चयमतं तु व्यक्त्यपेक्षया यो यत्स्वामी तत्तेनैवेति, व्यक्त्यपेक्षश्चेह तीर्थकरगणधर योरुपन्यासो वेदितव्यः, प्रधानव्यक्तित्वाद्, अन्यथा पुनरुक्तदोषप्रसङ्ग इति उक्तं च भाष्यकारेण - 'णणु णिग्गमे गयं चिय केण कयंति त्ति का पुणो पुच्छा? । भण्णइ स बज्झकत्ता इहंतरंगो विसेसोऽयं ॥ १॥" बाह्यकर्ता सामान्येनान्तरङ्गस्तु व्यक्त्यपेक्षयेति भावना, अयं गाथार्थः ॥ साम्प्रतं केषु द्रव्येषु क्रियत इत्येतद् विवृण्वन्नाह - तं केसु कीरई तत्थ नेगमो भणइ इट्ठदव्वेसु । सेसाण सव्वदव्वेसु पज्जवेसुं न सव्र्व्वसुं ॥ १७६॥ (दा० ३) (भा० ) व्याख्या—'तत्' सामायिकं 'केषु' द्रव्येषु स्थितस्य सतः 'क्रियते' निर्वर्त्यत इति द्रव्येषु प्रश्नः, नयप्रविभागेनेह निर्वचनं तत्र 'णेगमो भणई' नैगमनयो भाषते - 'इष्टद्रव्येषु' इति मनोज्ञपरिणामकारणत्वान्मनोज्ञेष्वेव शयनाशनादिद्रव्येष्विति, तथाहि- 'मैणुष्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुण्णंसि अगारंसि, मणुण्णं झायए मुणी ॥ १ ॥ इत्यागमः, 'शेषाणां' सङ्ग्रहादीनां सर्वद्रव्येषु, शेषनया हि परिणामविशेषात् कस्यचित् किञ्चिन्मनोज्ञमिति व्यभिचारात् सर्वद्रव्येषु स्थितस्य क्रियते यत्र मनोज्ञः परिणाम इति मन्यन्ते, पर्यायेषु न सर्वेष्ववस्थानाभावात्, तथाहि - यो यत्र निषद्यादौ स्थितः न स तत्र तत्सर्वपर्यायेषु, एकभाग एव स्थितत्वात् इत्थं चैतदङ्गीकर्तव्यम्, अन्यथा पुनरुक्तदोषप्रसङ्गः तथा चोक्तं १ ननु निर्गमे गतमेव केन कृतमितीति का पुनः पृच्छा ? । भण्यते स बाह्यकर्त्ता इहान्तरङ्गो विशेषोऽयम् ॥ १ ॥ २ मनोज्ञं भोजनं भुक्त्वा मनोज्ञं शयनासनम् । मनोज्ञेऽगारे मनोज्ञं ध्यायति मुनिः ॥ १ ॥ Donal For Personal & Private Use Only सूत्रस्पर्श० करणस्व० वि० १ ॥४६८॥ www.jainelibrary.org
SR No.600221
Book TitleAavashyaksutram Part 02
Original Sutra AuthorHaribhadrasuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages478
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy