________________
भाष्यकारेण - "णणु भणियमुवग्धाए केसुत्ति इहं कओ पुणो पुच्छा ? । केत्ति तत्थ विसओ इह केसु ठियस्स तल्लाहो ॥१॥ तो किह सबद्दधावत्थाणं ? णणु जाइमेत्तवयणाओ । धम्माइसवदधाहारो सबो जणोऽवस्सं ॥ २ ॥” अथवोपोद्घाते सर्वद्रव्याणि विषयः सामायिकस्य, इह तान्येव सर्वद्रव्याणि सामायिकस्य हेतुः, श्रद्धेयज्ञेयक्रियानिबन्धनत्वात्, अथवाऽन्यथा पुनरुक्त परिहारः- कृताकृतादिगाथायां कृतमकृतं वा सामायिकं कार्य कर्म, कर्तुरीप्सिततमत्वात् केन कृतमिति कर्तुः प्रश्नः केषु द्रव्येष्विति साधकतमकरणप्रश्नः, प्राकृते तृतीयाबहुवचनं सप्तमीबहुवचनतुल्यं तृतीयार्थे वा सप्तमीं कृत्वा निर्देशः, न चैतदपि स्वमनीषिकाव्याख्यानं, यतो भाष्यकारेणाप्यभ्यधायि - "विसेओवि उवग्घाए केसुत्तीहं स एव हे उत्ति । सद्धेयणेयकिरियाणिबंधणं जेण सामइयं ॥ १ ॥' अहवा कयाकयाइसु कज्जं केण व कयं च कत्तत्ति । केसुत्ति करणभावो ततियत्थे सत्तमीं काउं ॥ २ ॥ इत्यलं प्रसङ्गेनेति गाथार्थः ॥ १७६ ॥ द्वारं ॥ साम्प्रतं कदा कारकोऽस्य भवतीत्येतन्नयैर्निरूपयन्नाह -
काहु ? उदिट्ठे नेगम उवट्ठिए संगहो अ ववहारो । उज्जसुओ अक्कमंते सहु समत्तंमि उवउत्तो॥ १७७॥ (दा०४) (भा०) व्याख्या -कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, इह नयैर्निर्वचनं 'उद्दिट्ठे णेगम'त्ति उद्दिष्टे सति नैगमो
१ ननु भणितमुपोद्घाते केध्वितीह कुतः पुनः पृच्छा ? । केष्विति तत्र विषय इह केषु स्थितस्य तल्लाभः ॥ १ ॥ तदा कथं सर्वद्रव्यावस्थानं ? ननु जातिमात्रवचनात् । धर्मादिसर्वद्रव्याधारः सर्वो जनोऽवश्यम् ॥ २ ॥ २ विषयोऽप्यु (यो वो ) पोद्घाते केव्वितीह स एव हेतुरिति । श्रद्धे यज्ञेय क्रियानिबन्धनं येन सामायिकम् ॥ १ ॥ अथवा कृताकृतादिषु कार्ये केन वा कृतं च कर्त्तेति । केष्विति करणभावः तृतीयार्थे सप्तमीं कृत्वा ॥ २ ॥
Jain Education International
For Personal & Private Use Only
ainelibrary.org