________________
सूत्रस्पर्श
आवश्यक हारिभद्रीया
करणस्व० वि०१
॥४६९॥
CAREERRORAN
मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनयस्योद्दिष्टमात्र एव सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाऽननुष्ठायी सन् सामायिकस्य कर्ता वनगमनपस्थितप्रस्थककर्तृवत् , यस्मादुद्देशोऽपि तस्य कारणं सामायिकस्य, तस्मिंश्च कारणे कार्योपचारः, "उवठिए संगहो य ववहारोत्ति सङ्ग्रहो व्यवहारश्च मन्यते-उपस्थितः सन् कारको भवतीति, इयमत्र भावना-इहोद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रामन् कारको भवतीति मन्यते, एतदुक्तं भवति-उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः-सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते-न पठन्नेव, किन्तु समाप्तेः कारक इति सामायिकत्रियां वा प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणम् , असाधारणकारणेन च व्यपदेश इति, 'सङ समत्तंमि उवउत्तोत्ति शब्दादयो नया मन्यन्ते-समाप्ते सत्युपयुक्त एव कारको भवति, त्रयाणां च शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः, मनोज्ञतथापरिणामरूपत्वात् सामायिकस्येति भावना, अयं गाथार्थः ॥१७७ ॥ कदा कारक इति गतं, नयतो-नयप्रपञ्चत इत्यर्थः, अथवा कदा |कारक इत्येतावद् द्वारं गतं, नयत इत्येतत्तु द्वारान्तरमेव, अतस्तदभिधित्सयाऽऽह
आलोअणा य १ विणए २ खित्त ३ दिसाऽभिग्गहे अ४ काले ५।
रिक्ख ६ गुणसंपया वि अ ७ अभिवाहारे अ८ अट्ठमए॥१७८॥ (दा०५)(भा०) व्याख्या-इहाऽऽभिमुख्येन गुरोरात्मदोषप्रकाशनमू-आलोचनानयः, तथा विनयश्च पदधावनानुरागादिः, तथा
॥४६९॥
dalin Educati
o
nal
For Personal & Private Use Only
manjainelibrary.org